बुद्धिः सर्वार्थसाधिका Class 6 Sanskrit Chapter 8 MCQ Questions
बहुविकल्पीय प्रश्नाः
प्रदत्तविकल्पेभ्यः उचितं उत्तरं चिनुत । (दिए गए विकल्पों से सही उत्तर चुनिए ।)
Question 1.
चन्द्रस्य वासस्थानम् अस्ति-
(i) बिलम्
(ii) सरोवर:
(iii) वनम्
Answer:
(ii) सरोवर:
Question 2.
के समाधानं न प्राप्नुवन्ति ?
(i) गजा:
(ii) गजयूथा:
(iii) शशका:
Answer:
(iii) शशका:
Question 3.
शशकानां सभा कदा अभवत्?
(i) मध्याह्ने
(ii) प्रातः
(iii) सायङ्काले
Answer:
(iii) सायङ्काले
Question 4.
‘कथम् अहं विश्वासं करोमि ।’ इति अवदत्-
(i) चन्द्रः
(ii) गजराजः
(iii) शशकराज:
Answer:
(ii) गजराजः
Question 5.
गजानां परिभ्रमणेन के क्षतविक्षताः भवन्ति ?
(i) सिंहाः
(ii) मृगा:
(iii) शशकाः
Answer:
(iii) शशकाः
Question 6.
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत। (अधोलिखित गद्यांश को पढ़कर प्रश्नों के उत्तर लिखिए।)
(क)
एकस्मिन् वने एक : नित्यजलपूर्णः महान् सरोवर: अस्ति । कदाचिद् एकं पिपासाकुलं गजयूथं वनान्तरात् तत्र आगच्छति। तस्मिन् सरोवरे ते गजाः स्वेच्छया जलं पीत्वा स्नात्वा, क्रीडित्वा च सूर्यास्तसमये निर्गच्छन्ति । तस्य च सरोवरस्य तीरे समन्तात् सुकोमलभूमौ बहूनि शशक – बिलानि सन्ति, येषु बहवः शशकाः निवसन्ति । गजानां परिभ्रमणेन तेषु बिलेषु निवसन्तः बहवः शशकाः क्षतविक्षताः भवन्ति, केचन पुनः मृताः अपि भवन्ति । अतः शशकाः भीताः चिन्तामग्नाः च भवन्ति । ते दुःखम् अनुभवन्ति । स्वरक्षार्थ च ते उपायं चिन्तयन्ति ।
I. एकपदेन उत्तरत। (एक शब्द में उत्तर दीजिए ।)
Question 1.
महान् सरोवरः कीदृशः आसीत्?
Answer:
नित्यजलपूर्णः
Question 2.
गजयूथं कीदृशम् आसीत्?
Answer:
पिपासाकुलः
Question 3.
बहूनि शशक – बिलानि कुत्र आसीत् ?
Answer:
सुकोमलभूमौ
Question 4.
के दुःखम् अनुभवन्ति ?
Answer:
शशका:
II. पूर्णवाक्येन उत्तरत। (पूरे वाक्य में उत्तर दीजिए ।)
Question 1.
सरोवरे गजयूथं किम् करोति ?
Answer:
सरोवरे गजयूथं स्वेच्छया जलं पीत्वा स्नात्वा, क्रीडित्वा च सूर्यास्तसमये निर्गछन्ति ।
Question 2.
सरोवरस्य तीरे के वसन्ति ?
Answer:
सरोवरस्य तीरे समन्तात् सुकोमलभूमौ बहूनि शशक – बिलानि सन्ति, येषु बहवः शशकाः निवसन्ति ।
Question 3.
गजानां परिभ्रमणेन किं अभवत्?
Answer:
गजानां परिभ्रमणेन तेषु बिलेषु निवसन्तः बहवः शशकाः क्षतविक्षताः भवन्ति केचन पुनः मृताः अपि भवन्ति ।
Question 4.
स्वरक्षार्थं उपायं के चिन्तयन्ति ?
Answer:
ते सर्वे शशकाः स्वरक्षार्थम् उपायं चिन्तयन्ति ।
III. भाषिककार्यम् । (भाषा संबंधी कार्य ।)
Question 1.
‘आगच्छन्ति’ इति पदस्य विपर्ययपदं गद्यांशे किं आगतम्?
(क) अनुभवन्ति
(ख) निर्गच्छन्ति
(घ) चिन्तयन्ति
(ग) गच्छति
Answer:
(ख) निर्गच्छन्ति
(ii) ” ते उपायं चिन्तयन्ति । ” अस्मिन् वाक्ये क्रियापदं किं अस्ति?
Answer:
चिन्तयन्ति
(iii) “महान् सरोवरः” अत्र विशेषणपदं किम् ?
Answer:
महान्
(iv) “बहवः शशकाः क्षतविक्षताः भवन्ति । ” अत्र वाक्ये कर्तृपदं किमस्ति ?
Answer:
शशका:
(ख)
एकस्मिन् दिने सायङ्काले तेषां शशकानां सभा भवति । सर्वे शशकाः स्वमतं प्रकाशयन्ति । परं ते समाधानं न प्राप्नुवन्ति । अन्ते शशकराजः वदति – ” अहमेव उपायं चिन्तयामि । अधुना वयं सर्वे स्वगृहं गच्छामः । ” अन्यस्मिन् दिवसे रात्रौ सः शशकराजः यूथाधिपस्य गजराजस्य समीपं गच्छति । सः गजराजं कथयति-” हे गजराज ! एषः सरोवर: चन्द्रस्य वासस्थानम् अस्ति। वयं शशकाः तस्य प्रजाः स्मः, अत एव सः शशाङ्कः इति नाम्ना प्रसिद्धः । यदा शशकाः जीवन्ति तदा एव चन्द्रः प्रसन्नः भवति । ”
I. एकपदेन उत्तरत। ( एक शब्द में उत्तर दीजिए ।)
Question 1.
शशकानां सभा कदा अभवत्?
Answer:
सायङ्काले
Question 2.
शशकाः किं न प्राप्नुवन्ति ?
Answer:
समाधानम्
Question 3.
सरोवरः कस्य वासस्थानं अस्ति?
Answer:
चन्द्रस्य
Question 4.
चन्द्रस्य प्रजाः के?
Answer:
शशका:
II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)
Question 1.
यदा शशका: जीवन्ति तदा किंर भवति ?
Answer:
यदा शशकाः जीवन्ति तदा एव चन्द्रः प्रसन्नः भवति ।
(ii) अन्ते शशकराजः किं वदति ?
Answer:
अन्ते शशकराजः वदति – ” अहमेव उपाय चिन्तयामि । अधुना वयं सर्वे स्वगृहं गच्छामः ।
(iii) शशकराजः गजराजस्य समीपे कदा गच्छति ?
Answer:
अन्यस्मिन् दिवसे रात्रौ शशकराजः गजराजस्य समीपं गच्छति ।
(iv) शशकराजः गजराजम् किं कथयति ?
Answer:
शशकराजः गजराजं कथयति – हे गजराज ! एषः सरोवरः चन्द्रस्य वासस्थानम् अस्ति । वयं शशकाः तस्य प्रजाः स्मः ।
III. भाषिककार्यम्। (भाषा संबंधी कार्य ।)
(i) ‘चन्द्र:’ इति पदस्य पर्यायपदं किम् ?
(क) शशकः
(ग) शशाङ्क:
(ख) एषः
(घ) शशकराजः
Answer:
(ग) शशाङ्क:
(ii) ‘रात्रौ ‘ इति पदस्य विपर्ययपदं लिखत ?
(क) दिवसे
(ग) अन्यस्मिन्
(ख) दिनम्
(घ) सायङ्काले
Answer:
(क) दिवसे
(iii) ‘अहमेव उपायं चिन्तयामि ।’ अस्मिन् वाक्ये कर्तृपदं किम् आगतम् ?
(क) अहमेव
(ख) अहम्
(ग) उपाय
(घ) एवम्
Answer:
(ख) अहम्
(iv) ‘अधुना वयं सर्वे स्वगृहं ………..। अत्र क्रियापदं अस्ति-
(क) गच्छन्ति
(ख) गच्छामि
(ग) गच्छामः
(घ) गच्छावः
Answer:
(ग) गच्छामः
Question 7.
मञ्जूषायाः सहायतया गद्यांशं सम्पूरयत। (मञ्जूषा की सहायता से गद्यांश पूर्ण कीजिए । )
(क) एकस्मिन् वने एक : (i) ………. महान् सरोवर: अस्ति । कदाचित् एकं (ii) …….. गजयूथं वनान्तरात् तत्र (iii) ……… । तस्मिन् सरोवरे ते गजाः स्वेच्छया (iv) ……… पीत्वा, स्नात्वा (v) ……. च सूर्यास्त समये निर्गच्छन्ति । तस्य च (vi) ……….. तीरे समन्तात् सुकोमल भूमौ (vii) …… शशक-बिलानि सन्ति, येषु (viii) …… शशका: निवसन्ति ।
बहवः नित्यजलपूर्णः जलं सरोवरस्य
बहूनि क्रीडित्वा पिपासाकुलं आगच्छति
Answer:
(i) नित्यजलपूर्णः
(iii) आगच्छति
(v) क्रीडित्वा
(vii) बहूनि
(ii) पिपासाकुलं
(iv) जलं
(vi) सरोवरस्य
(viii) बहव:
(ख)
गजानां परिभ्रमणेन सर्वे (i) ……. भीताः चिन्तामग्नाः च भवन्ति । ते (ii) ……. अनुभवन्ति । स्वरक्षार्थं ते (iii) ……. चिन्तयन्ति । अन्ते शशकराजः एकं उपायं (iv) ….. । सः गजराजं कथयति – ‘एषः सरोवर: (v) ……… वासस्थानम् अस्ति। वयं शशकाः तस्य (vi) ……. स्मः । अतएव सः चन्द्र: (vii) …….. इति नाम्ना प्रसिद्ध: । ग़जः जले चन्द्रस्य (viii) ……… पश्यति, चकितः च भवति । सः (ix) ………चन्द्रं नमति। सः (x) ……. सह अन्यत्र गच्छति। शशकाः सुखेन तिष्ठन्ति । सत्यमेव उक्तम् – बुद्धिः सर्वार्थसाधिका ।
गजयूथेन शशकाः दुःखम् प्रजाः शशाङ्कः
प्रतिबिम्बं भयेन उपायं चन्द्रस्य चिन्तयति
Answer:
(i) शशका:
(ii) दुःखम्
(iii) उपायं
(iv) चिन्तयति
(v) चन्द्रस्य
(vi) प्रजा:
(vii) शशाङ्कः
(viii) प्रतिबिबं
(ix) भयेन
(x) गजयूथेन
Question 8.
उचितं विकल्पं चित्वा रिक्तस्थानानि पूरयन्तु । (उचित विकल्प चुनकर रिक्त स्थानों को पूर्ण कीजिए ।)
(क) त्वं ……… । (गच्छसि / गच्छति)
Answer:
गच्छसि
(ख) युवां ……. । (पठावः/पठथः )
Answer:
पठथः
(ग) यूयं ………। (पठथ/पठामः)
Answer:
पठथ
(घ) भवान् ………..। (गच्छसि/गच्छति )
Answer:
गच्छति
(ङ) अहं …….. | ( पठामि / पठसि )
Answer:
पठामि
(च) वयं ……..| (स्मः/स्वः)
Answer:
स्मः
(छ) आवां ….. | (अस्मि / स्व:)
Answer:
स्वः
(ज) बालिकाः ……..। (आगच्छन्ति / आगच्छति)
Answer:
आगच्छन्ति
(झ) शशका: ……..। ( वसति / वसन्ति)
Answer:
वसन्ति
(ञ) गजौ ………. । (क्रीडतः / क्रीडन्ति )
Answer:
क्रीडतः
Question 9.
विलोमपदानि योजयत । (विलोम पदों को जोड़िए ।)
क | ख |
(क) महान् | (i) अप्रसन्नः |
(ख) आगच्छति | (ii) अविश्वास: |
(ग) सूर्यास्त: | (iii) रात्रौ |
(घ) दुःखम् | (iv) सुखम् |
(ङ) दिवसे | (v) सूर्योदय: |
(च) प्रसन्नः | (vi) निर्गच्छति |
(छ) विश्वास: | (vii) लघुः |
Answer:
(क) – (vii)
(ख) – (vi)
(ग) – (v)
(घ) – (iv)
(ङ) – (iii)
(च) – (i)
(छ) – (ii)
Question 10.
कोष्ठकगतेषु शब्देषु उचितं विभक्तिं संयोज्य रिक्तस्थानानि पूरयत। (कोष्ठक में दिए गए शब्दों में उचित विभक्ति लगाकर रिक्त स्थानों को भरिए ।)
(क) अधुना ………. पचति। (सूद)
Answer:
सूदः
(ख) ……… लेखम् लिखतः । (छात्रा)
Answer:
छात्रे
(ग) अद्य …… गर्जन्ति । (मेघ)
Answer:
मेघाः
(घ) …….. किमर्थम् रोदिति । (बालिका)
Answer:
बालिका
(ङ) ……. नमतः । (लता)
Answer:
लते
(च) ……… विकसन्ति । (कलिका)
Answer:
कलिकाः
(छ) ……… कूजतः। (पिक)
Answer:
पिकौ
Question 11.
पर्यायपदानि योजयत । (पर्यायपदों को जोड़िए ।)
क | ख |
(क) चकित: | (i) जलेन पूरित: |
(ख) उक्तम् | (ii) तटे |
(ग) अधुना | (iii) कथितम् |
(घ) दिवसे | (iv) विस्मितः |
(ङ) समन्तात् | (v) दिने |
(च) जलपूर्णः | (vi) परित: |
(छ) तीरे | (vii) इदानीम् |
Answer:
(क) – (iv)
(ख) – (iii)
(ग) – (vii)
(घ) – (v)
(ङ) – (vi)
(च) – (i)
(छ) – (ii)