Electrical

CBSE Sample Papers for Class 9 Sanskrit Set 5 with Solutions

Students must start practicing the questions from CBSE Sample Papers for Class 9 Sanskrit with Solutions Set 5 are designed as per the revised syllabus.

CBSE Sample Papers for Class 9 Sanskrit Set 5 with Solutions

समय: 3 होराः
पूर्णांक: 80

सामान्यनिर्देशाः

  • कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 11 पृष्ठानि मुद्रितानि सन्ति ।
  • कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 19 प्रश्नाः सन्ति ।
  • अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः सन्ति ।
    ‘क’ खण्ड: : अपठितावबोधनम् 10 अङ्काः
    ‘ख’ खण्डः : रचनात्मककार्यम् 15 अङ्काः
    ‘ग’ खण्डः : अनुप्रयुक्तव्याकरणम् 25 अङ्काः
    ‘घ’ खण्डः : पठितावबोधनम् 30 अङ्काः
  • प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि ।
  • उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः ।
  • प्रश्नस्य क्रमाङ्कः प्रश्नपत्रानुसारम् एव लेखनीयः ।
  • सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
  • प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।

(खंड ‘क’)
(अपठित अवबोधनम्) (10 अंङ्का:)

1. अधोलिखितम् गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत । [10]

एकदा स्वमित्रस्य सहोदरस्य जन्मदिवसे सम्मिलितः भवितुं यदा गुणाकर: निकटस्थं प्रतिवेशिग्रामं रेलमार्गस्य समीपतः गच्छन् आसीत् तदा तेन एकत्र कश्चित् रेल-पट्टिका: उत्पाटिता: दृष्टाः । सह एव तस्मिन् समये दूरतः महत्या द्रुत गत्या आगच्छत् रेल-यानम् अपि स दृष्टवान्। प्रत्युत्पन्न-बुद्धिः गुणाकरः सद्यः स्वशरीरतः चोलकम् उत्तार्य तं ध्वजम् इव ऊर्ध्व वायौ उत्तोल्य प्रदर्शयन् आगच्छद्-रेल-यान-उ -अभिमुखं अधावत्, रेलयानं च अवरोद्धुं चालकं सङ्केतितवान् । चालकः तथैव अकार्षीत। एवं रेलयानं क्षति-ग्रस्तं न अभवत्, यात्रिणः च सुरक्षिताः अजायन्त ।

प्रश्ना:

(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) [1 × 2 = 2]

(i) क: स्वमित्रस्य सहोदरस्य जन्मदिवसे सम्मिलितः भवितुं गतः ?
उत्तर:
गुणाकरः

(ii) गुणाकरेण का: उत्पाटिताः दृष्टाः ?
उत्तर:
रेल-पट्टिकाः

(iii) के सुरक्षिताः अजायन्त ?
उत्तर:
यात्रिणः

(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) [2 × 2 = 4]

(i) रेलयानं अवरोद्धुं गुणाकर: चालकं कथं सङ्केतितवान् ?
उत्तर:
प्रत्युत्पन्न बुद्धिः गुणाकरः सद्यः स्वशरीरात् चोलकम् उत्तार्य तं ध्वजं इव ऊर्ध्वं वायौ उत्तोल्य प्रदर्शयन् आगच्छद् – रेलयानम् अभिमुखम् अधावत्, रेलयानं च अवरोद्धुम् चालकं सङ्केतितवान्।

(ii) किं क्षतिग्रस्तं न अभवत् ?
उत्तर:
रेलयानं क्षतिग्रस्तं न अभवत्।

(iii) प्रत्युत्पन्न-बुद्धिः कः आसीत् ?
उत्तर:
प्रत्युत्पन्न – बुद्धिः गुणाकरः आसीत् ।

(इ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत । [1 × 1 = 1]उत्तर:
प्रत्युत्पन्न बुद्धिः गुणाकर: / गुणाकरस्य बुद्धिचातुर्य ।

(ई) भाषिक कार्यम् (केवलं प्रश्नत्रयम्) [1 × 3 = 3]

(i) “गुणाकरः निकटस्थं प्रतिवेशि – ग्रामं रेलमार्गस्य समीपतः गच्छन् आसीत्।” अत्र ‘निकटस्थं’ कस्य पदस्य विशेषणपदम् अस्ति ?
(क) गुणाकरः
(ख) प्रतिवेशिग्रामं
(ग) ऊर्ध्वम्
(घ) रेलमार्गस्य
उत्तर:
(ख) प्रतिवेशिग्रामम्

(ii) अनुच्छेदे ‘अध:’ इति पदस्य किं विलोमपदं प्रयुक्तम् ?
(क) सद्य:
(ख) उत्पाटिताः
(ग) समीपतः
(घ) सद्य:
उत्तर:
(ग) ऊर्ध्वम्

(iii) ‘एवं रेलयानं क्षति ग्रस्तं न अभवत् । ‘ अत्र ‘अभवत्’ इति क्रियापदस्य कर्तृपदं किम् अस्ति ?
(क) एवं
(ख) रेलयानम्
(ग) न
(घ) क्षतिग्रस्तं
उत्तर:
(ख) रेलयानम्

(iv) ‘यात्रिणः च सुरक्षिताः अजायन्त’ इत्यत्र किं क्रियापदं प्रयुक्तम् ?
(क) यात्रिणः
(ख) सुरक्षिताः
(ग) अजायन्त
(घ) च
उत्तर:
(ग) अजायन्त

खण्ड – ‘ख’
(रचनात्मकं कार्यम्) [15 अंङ्का:]

2. भवतः नाम हितेशः अस्ति छात्रावासे च भवान् वसति। अजन्ता ऐलोरागुहासु शैक्षिक यात्रायै गन्तुम् इच्छति । धनप्रेषणार्थं पितरं प्रति लिखिते पत्रे मञ्जूषातः रिक्तस्थानानि उचितैः शब्दैः पूरयित्वा उत्तरपुस्तिकायां पुनः लिखत । [1⁄2 × 10 = 5]

25, रंगहरि: छात्रावासः
तिथि ……………
(i) …………..
परमादरणीयाः (ii) …………..
सादरं प्रणमामि।
सविनयम् (iii) …………… यत् मम सङ्कलनात्मकं मूल्यांङ्कनं प्रथमम् परीक्षा समाप्ता। मम (iv) ………… शोभनानि अभवन्। अस्मिन् (v) ……….. अहं गृहं न आगमिष्यामि यतः विद्यालयेन एकस्मिन्: (vi) …………. प्रबन्धः कृतः । एषा यात्रा अजन्ता-ऐलोरा-गुहानां (vii) ……..आयोजिता अस्ति। कृपया यात्राव्यथार्थं (viii) …….. रुप्यकाणि प्रेषयन्तु भवन्तः । शेषं सर्वं कुशलम्। (ix) …….. अग्रजाय च सादरं प्रणामाः ।
भवदीय : (x)……….
हितेश:

मञ्जूषा
दर्शनाय, निवेदयामि, प्रियपुत्रः, शैक्षिकयात्रायाः, पञ्चशतम्, कालिकातातः, शरदावकाशे, जनन्यै, उत्तरपत्राणि, पितृमहाभागाः ।
उत्तर:
25, रंगहरिः छात्रावासः
तिथि ………..
(i) कालिकातात:
परमादरणीयाः (ii) पितृमहाभागाः
सादरं प्रणमामि ।
सविनयम् (iii) निवेदयामि यत् मम सङ्कलनात्मकं मूल्यांङ्कनं प्रथमम् परीक्षा समाप्ता । मम (iv) उत्तरपत्राणि शोभनानि अभवन्। अस्मिन् (v) शरदावकाशे अहं गृहं न आगमिष्यामि यतः विद्यालयेन एकस्याः (vi) शैक्षिकयात्राया: प्रबन्धः कृतः । एषा यात्रा अजन्ता – ऐलोरा-गुहानां (vii) दर्शनाय आयोजिता अस्ति। कृपया यात्राव्यथार्थं (viii) पञ्चशतम् रुप्यकाणि प्रेषयन्तु भवन्तः । शेषं सर्वं कुशलम् । मम (ix) जनन्यै अग्रजाय च सादरं प्रणामाः ।
भवदीयः (x) प्रियपुत्रः
हितेश:

3. चित्रं दृष्ट्वा प्रदत्तानां शब्दानां सहायतया पञ्चवाक्यानि संस्कृतेन कुरुत । [1 × 5 = 5]

CBSE Sample Papers for Class 9 Sanskrit Set 5 with Solutions 1
मञ्जूषा
ज्ञानवर्धनाय, आवश्यकम्, पुस्तकालये, अनेकानि पश्यन्ति, कुर्वन्ति, अनेकेषाम्, सन्ति, विषयाणाम्, पठन्ति, स्वाध्यायम्, बालाः, अध्ययनम्, पुस्तकानि ।

अथवा

‘सन्तुलित-आहारस्य महत्त्वम्’ इति विषयम् अधिकृत्य संस्कृतेन पञ्चवाक्यानि लिखत । सहायतायै मञ्जूषायां पदानि दत्तानि ।

मञ्जूषा

भोजनम्, रोटिकाः, सूपम् – ओदनम्, दुग्धम्, शाकाहारी, शाकम् जनाः, अधुना, स्वच्छ-जलम्, सम्पूर्ण – खनिजाः, विटामिन्स इत्यादयः, भोजनात्-पूर्वम्, स्वच्छीकृत्य, हस्तौ, अपि, एव ।
उत्तर:
(i) पुस्तकालये पुस्तकं पठनं ज्ञानवर्धनाय भवति ।
(ii) अत्र अनेकानि विषयानि पुस्तकानि सन्ति ।
(iii) अत्र आगत्य बालाः बालिकाः च स्वाध्यायं कुर्वन्ति ।
(iv) विद्यालये पुस्तकालयम् आवश्यकम् भवति ।
(v) पुस्तकालये अनेकानां विभागानां विषयाणां पुस्तकानि उपलब्धानि सन्ति ।

अथवा

अनुच्छेद लेखनम् –
(i) सन्तुलित आहार – अतीव आवश्यकम् अस्ति ।
(ii) भोजने शाकं सूपं – ओदनम् अपि आवश्यकं वर्तते ।
(iii) भोजनात् पूर्व हस्तौ प्रक्षाल्य भोजनं करणीयम् ।
(iv) स्वच्छं जलं पातव्यम्।
(v) सम्पूर्णा : खनिजाः दुग्धे भवन्ति ।

4. हिन्दी भाषया आङ्गलभाषया वा लिखितानां वाक्यानां संस्कृतेन अनुवादः क्रियताम्। (केवलं पञ्चवाक्यम्) [1 × 5 = 5]

(i) एक बार एक कौआ एक वृक्ष की शाखा पर बैठा हुआ था ।
Once a crow was sitting on a branch of tree.
(ii) हमारे नगर में हु से उद्यान हैं।
There are so many parks in our city.
(iii) सज्जन परोपकार के लिए जीते हैं।
The gentle live for the good of others.
(iv) इस समय मैं खेलने के लिए जा रहा हूँ।
I am going to play in this time.
(v) मैं ग्रीष्मावकाश में घूमने के लिए जयपुर जाऊँगा ।
I will go to Jaipur for touring in summer vacation.
(vi) भारतीय संस्कृति – संस्कृत में ही निहित है ।
Indian culture is rooted in Sanskrit itself.
(vii) यह मेरे घर के समीप है।
It is close to my house.
उत्तर:
(i) एकदा एकः काकः एकस्य वृक्षस्य शाखायाम् उपविष्ट आसीत् ।
(ii) अस्मांक नगरे अनेकानि उद्यानानि सन्ति ।
(iii) सज्जनाः परोपकाराय जीवन्ति ।
(iv) इदानीम् अहम् क्रीडितुं गच्छामि ।
(v) अहं ग्रीष्मावकाशे भ्रमणाय जयपुरं गमिष्यामि ।
(vi) भारतीय संस्कृतिः संस्कृते एव निहिता अस्ति ।
(vii) इदं मम गृहस्य समीपे अस्ति ।

खण्ड- ‘ग’
(अनुप्रयुक्त व्याकरणम्)

5. अधोलिखितवाक्येषु रेखाङ्कितपदानां सन्धिं-सन्धिविच्छेदं वा कृत्वा लिखत- (केवलं प्रश्नचतुष्ट्यम्) – [1 × 1 = 4]

(i) हितोपदेश: नारायणपण्डितस्य कृतिरस्ति ।
उत्तर:
हित + उपदेश:

(ii) जगदीश: सर्वत्र वसति ।
उत्तर:
जगत् + ईश:

(iii) राम : विद्यालयम् गच्छति
उत्तर:
विद्यालयं + गच्छति

(iv) देवेश: तीव्रं धावति ।
उत्तर:
देव + ईश:

(v) द्वौ + अपि पर्वतीयस्थलं गच्छतः ।
उत्तर:
द्वावपि

6. उचित शब्दरूपाणि चित्वा रिक्त स्थानानि पूरयत – (केवलं प्रश्नचतुष्टयम्) [1 × 4 = 4]

(i) ……. मम विद्यालयः अस्ति ।
(क) एषः
(ख) एतानि
(ग) इमानि
(घ) एता:
उत्तर:
(क) एषः

(ii) सः …….. जलम् आनयति।
(क) नद्या
(ख) नद्या:
(ग) नद्यात्
(घ) नद्या
उत्तर:
(ख) नद्या:

(iii) …….. उभयतः मार्गम् अस्ति ।
(क) विद्यालय:
(ख) विद्यालयम्
(ग) विद्यालयेन
(घ) विद्यालयात्
उत्तर:
(ख) विद्यालयम्

(iv) तस्मै श्री ……. नमः ।
(क) गुरुम्
(ख) गुरुणा
(ग) गुरवे
(घ) गुरो:
उत्तर:
(ग) गुरवे

(v) मा स्पृश !…….. मोदकानि ।
(क) इमानि
(ख) एतौ
(ग) सर्वम्
(घ) एतानि
उत्तर:
(घ) एतानि

7. ओसवाल सी.बी.एस.ई. प्रतिदर्श प्रश्न पत्र, संस्कृत, कक्षा IX उचितधातुरूपाणि चित्वा रिक्तस्थानानि पूरयत – (केवलं प्रश्न चतुष्ट्यम्) [1 × 4 = 4]

(i) शिष्याः गुरुम्……..!
(क) सेवते
(ख) सेवध्वे
(ग) सेवन्ते
(घ) सेवे
उत्तर:
(ग) सेवन्ते

(ii) बालकः गृहे अस्वस्थां मातरम् ………
(क) सेवे
(ख) सेवन्ते
(ग) सेवते
(घ) सेवेते
उत्तर:
(ग) सेवते

(iii) छात्रा : सदा एव………|
(क) पठति
(ख) पठन्ति
(ग) पठतः
(घ) पठामि
उत्तर:
(ख) पठन्ति

(iv) केरल प्रदेशे अनेके जनाः शिक्षिता: ……..|
(क) अस्ति
(ख) असि
(ग) सन्ति
(घ) स्तः
उत्तर:
(ग) सन्ति

(v) परमवीराः पाण्डवाः पञ्च…………।
(क) आसीत्
(ख) आस्ताम्
(ग) आसन्
(घ) आसीः
उत्तर:
(ग) आसन्

8. उचितविभक्ति प्रयोगाणि चित्वा रिक्तस्थानानि पूरयत – (केवलं प्रश्न चतुष्ट्यम्) [1 × 4 = 4]

(i) वानरः ………. सह गच्छति ?
(क) कम्
(ख) केन
(ग) कस्य
(घ) कस्मात्
उत्तर:
(ख) केन

(ii) बालकः ………. बिभेति ।
(क) सिंहस्य
(ख) सिंहात्
(ग) सिंहेन
(घ) सिंहाय
उत्तर:
(ख) सिंहात्

(iii) रामः पठने……. अस्ति ।
(क) कुशल:
(ख) नमः
(ग) प्रति
(घ) चतुः
उत्तर:
(क) कुशलः

(iv) रात्रौ …….. बहिः मा गच्छ ।
(क) विद्यालयम्
(ख) विद्यालयस्य
(ग) विद्यालयात्
(घ) विद्यालयः
उत्तर:
(ग) विद्यालयात्

(v) ……… दुर्जनेभ्यः अलम्।
(क) राम:
(ख) रामेण
(ग) रामौ
(घ) रामाणाम्
उत्तर:
(क) राम:

9. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा रिक्तस्थानानि पूरयत – (केवलं प्रश्नत्रयम्) [1 × 3 = 3]

(i) रमेश पुस्तकानि ……….. आगच्छति। (आ – दा + ल्यप्)
(क) आदाय
(ख) आदत्य
(ग) आदित्य
(घ) आदायानि
उत्तर:
(क) आदाय

(ii) राम : विद्यालयं गत्वा पठति
(क) गच्छ + क्त्वा
(ख) गम् + क्त्वा
(ग) गम् + तुमुन्
(घ) गम् + शतृ
उत्तर:
(ख) गम् + क्त्वा

(iii) सः जलं पिबन् गच्छति ।
(क) पा- शतृ
(ख) पी शतृ
(ग) पव् + शानच्
(घ) पा + अन्
उत्तर:
(क) पा + शतृ

(iv) आचार्येण कक्षायां प्रश्नाः पृच्छ् – क्त।
(क) पृष्ट:
(ख) पृष्टम्
(ग) पृष्टाः
(घ) पृष्टवान्
उत्तर:
(क) पृष्ट:

10. संख्यावाचिशब्दरूपाणाम् रिक्त स्थानानि पूरयत । (केवलं प्रश्न चतुष्टयम् ) [1/2 × 4 = 2]

(i) एतानि पुस्तकानि ……… छात्राभ्यः सन्ति । (चतुर्)
उत्तर:
चतसृभ्यः

(ii) ……. वृक्षात् अनेकानि फलानि अपतन् । (एक)
उत्तर:
एकस्मात्

(iii) आकाशे ………. पक्षिणः उत्पतन्ति । (चतुर् )
उत्तर:
चत्वारः

(iv) गृहिणी ……… ब्राह्मणेभ्यः दानम् अयच्छत् । पञ्च)
उत्तर:
पञ्चेभ्यः

(v) वर्षे …… मासाः भवन्ति । (द्वादश)
उत्तर:
द्वाद्वश

11. रेखाङ्कितपदेषु उपसर्गं पृथक् क्रियताम् । (केवलं प्रश्न चतुष्टयम्) [1/2 × 4 = 2]

(i) तं शिशुं गिरिगुहायां प्रक्षिप्य
उत्तर:
प्र

(ii) तौ द्वावपि सम्बोध्य तुला : शिशुप्रदानने तोषित वन्तः ।
उत्तर:
सम्

(iii) तत: प्रविशति तपस्यारतः तपोदत्तः ।
उत्तर:
प्र

(iv) शङ्कराचार्यस्य पराजयः नास्ति।
उत्तर:
परा

(v) वित्तम् एति च याति च।
उत्तर:
वि

12. मञ्जूषायाः उचितम् अव्ययपदं चित्वा वाक्येषु रिक्त स्थानानि पूरयत – (केवलं प्रश्नचतुष्टयम्) [1/2 × 4 = 2]

(i) ……….. स्वगृहं गत्वा पठ।
(क) अद्य
(ख) अधुच
(ग) यपि
(घ) तत्र
उत्तर:
(ख) अधुना

(ii) वयम् ……… शिवं भजामः ।
(क) खः
(ख) तग
(ग) अपि
(घ) पुरा
उत्तर:
(ग) अपि

(iii) कर्मणि ………. अधिकारस्ते।
(क) एव
(ख) अधि
(ग) सर्वदा
(घ) अत्र
उत्तर:
(क) एव

(iv) अधनस्य ……. मित्रम् ?
(क) कुत्र
(ख) कुतः
(ग) किम्
(घ) कथम्
उत्तर:
(ख) कुत:

(v) जननी जन्मभूमिश्च स्वर्गाद् ……… गरीयसी ।
(क) अपि
(ख) एव
(ग) अधुना
(घ) एकदा
उत्तर:
(क) अपि ।

खण्ड – ‘घ’
(पठित-अवबोधनम् )

13. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- [5]

भ्रान्तः कश्चन बालः पाठशालागमनवेलायां क्रीडितुं निर्जगाम । किन्तु तेन सह केलिभिः कालं क्षेप्तुं तदा कोऽपि न वयस्येषु उपलभ्यमान आसीत्। यतस्ते सर्वेऽपि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणा बभूवुः । तन्द्रालुर्बालो लज्जया तेषां दृष्टिपथमपि परिहरन्नेकाकी किमप्युद्यानं प्रविवेश ।
स चिन्तयामास-विरमन्त्वेते वराका: पुस्तकदासाः । अहं पुनरात्मानं विनोदयिष्यामि । ननु भूयो द्रक्ष्यामि क्रुद्धस्य उपाध्यायस्य मुखम् । सन्त्वेते निष्कुटवासिनः एव प्राणिनो मम वयस्या इति ।

(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) [1⁄2 × 2 = 1]

(i) बालः कदा क्रीडितुं निर्जगाम ?
उत्तर:
पाठशालागमन वेलायाम्

(ii) अहं कथं विनोदयिष्यामि ?
उत्तर:
पुनरात्मानम्

(iii) तन्द्रालुः बालः कुत्र प्रविवेश ?
उत्तर:
उद्यानम्।

(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम् )

(i) बालस्य मित्राणि किमर्थं त्वरमाणा बभूवुः ?
उत्तर:
बालस्य मित्राणि पूर्वदिन पाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणा बभूवुः ।

(ii) क: क्रीडितुं निर्जगाम ?
उत्तर:
भ्रान्तबालः पाठशालागमनवेलायां क्रीडितुं निर्जगाम ।

(iii) कः तन्द्रालुः भवति : ?
उत्तर:
भ्रान्तो बालः तन्द्रालुः भवति ।

(इ) भाषिक कार्यम् – (केवलं प्रश्नद्वयम्) [1 × 2 = 2]

(i) ‘भ्रान्त: कश्चन बालः पाठशालागमनवेलायां क्रीडितुम् निर्जगाम’ अत्र किं विशेषण पदं प्रयुक्तं ?
उत्तर:
भ्रान्तः

(ii) ‘निष्कान्तः’ इत्यर्थे अत्र कः पर्यायः प्रयुक्तः ?
उत्तर:
निर्जगाम

(iii) ‘अहं पुनरात्मानं विनोदयिष्यामि’ अत्र किं क्रियापदं प्रयुक्तम् ?
उत्तर:
विनोदयिष्यामि।

14. अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत-

श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् ।
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥

प्रश्ना:

(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) [1/2 × 2 = 2]

(i) किं श्रुत्वा अवधार्यताम् ?
उत्तर:
धर्मसर्वस्वम्

(ii) आत्मनः कानि परेषां न समाचरेत् ?
उत्तर:
प्रतिकूलानि

(iii) किं श्रवणीयम् ?
उत्तर:
धर्मसर्वस्वम्।

(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम् )

(i) अस्माभिः कीदृशम् आचरणं न कर्त्तव्यम् ?
उत्तर:
अस्माभिः आत्मनः प्रतिकूलम् आचरणं परैः सह न कर्त्तव्यम्।

(ii) मानवजीवने किं अवधारणीयम् ?
उत्तर:
मानवजीवने धर्म सर्वस्वम् अवधारणीयम् ।

(iii) प्रतिकूलं किम् ?
उत्तर:
यो व्यवहारः स्वस्मै न रोचते तत् प्रतिकूलम् ।

(इ) भाषिक कार्यम् – (केवलं प्रश्नद्वयम्) [1 × 2 = 2]

(i) ‘अनुकूलानि ‘ इत्यस्य पदस्य अत्र किं विलोम पदं प्रयुक्तः ?
उत्तर:
प्रतिकूलानि

(ii) ‘अन्येषां’ इत्यस्य पदस्य अत्र कः पर्यायः प्रयुक्त: ?
उत्तर:
परेषाम्

(iii) ‘आत्मनः प्रतिकूलानि परेषां न समाचरेत्’ अत्रः किं क्रियापदं प्रयुक्तम् ?
उत्तर:
समाचरेत्।

15. अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत-
(मल्लिका मोदकानि रचयन्ती मन्दस्वरेण शिवस्तुतिं करोति )
(ततः प्रविशति मोदकगन्धम् अनुभवन् प्रसन्नमना चन्दनः ।)

चन्दनः – अहा! सुगन्धस्तु मनोहर : ( विलोक्य) अये मोदकानि रच्यन्ते ? ( प्रसन्नः भूत्वा ) आस्वादयामि तावत्। (मोदकं गृहीतुमिच्छति)
मल्लिका – (सक्रोधम्) विरम | विरम मा स्पृश ! एतानि मोदकानि ।
चन्दनः – किमर्थं क्रुध्यसि ! तव हस्तनिर्मितानि मोदकानि दृष्ट्वा अहं जिह्वालोलुपतां नियन्त्रयितुम् अक्षमः अस्मि, किं न जानासि त्वमिदम् ?
मल्लिका – सम्यग् जानामि नाथ! परम् एतानि मोदकानि पूजानिमित्तानि सन्ति ।
चन्दनः – तर्हि, शीघ्रमेव पूजनं सम्पादय। प्रसादं च देहि।
मल्लिका – भो! अत्र पूजनं न भविष्यति । अहं स्वसखिभिः सह श्वः प्रातः काशीविश्वनाथमन्दिरं प्रति गमिष्यामि, तत्र गङ्गास्नानं धर्मयात्राञ्च वयं करिष्यामः ।
चन्दनः – सखिभिः सह ! न मया सह ! (विषादं नाटयति)
मल्लिका – आम्। चम्पा, गौरी, माया, मोहिनी, कपिलाद्याः सर्वाः गच्छन्ति । अतः, मया सह तवागमनस्य औचित्यं नास्ति । वयं सप्ताहान्ते प्रत्यागमिष्यामः। तावत्, गृहव्यवस्था, धेनोः दुग्धदोहनव्यवस्थाञ्च परिपालय ।

प्रश्ना:

(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) [1/2 × 2 = 1]

(i) मन्दस्वरेण शिवस्तुतिं का करोति ?
उत्तर:
मल्लिका

(ii) प्रमादं देहि इति कः कथयति ?
उत्तर:
चन्दन:

(iii) पूजानिमित्तानि कानि सन्नि ?
उत्तर:
मोदकानि।

(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) [1 × 2 = 2]

(i) स्वसखिभिः सह श्वः प्रातः काशीविश्वनाथमन्दिरं प्रति का गमिष्यति ?
उत्तर:
मल्लिका स्वसखिभिः सह श्वः प्रातः काशीविश्वनाथमन्दिरं प्रति गमिष्यति ।

(ii) काशीविश्वनाथमन्दिरं प्रति काः गमिष्यन्ति ?
उत्तर:
काशीविश्वनाथ मन्दिरं प्रति मल्लिका, चम्पा, गौरी, माया, मोहिनी, कपिलाद्याः गमिष्यन्ति ।

(iii) कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म ?
उत्तर:
मोदकानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म ।

(इ) भाषिक कार्यम् – (केवलं प्रश्नद्वयम्) [1 × 2 = 2]

(i) ‘मल्लिका मन्दस्वरेण शिवस्तुतिं करोति’ अत्र किं कर्तृपदं प्रयुक्तं ?
(ii) ‘रसनालोभम्’ इत्यर्थे कः पर्यायः प्रयुक्तः
(iii) ‘एतानि मोदकानि पूजानिमित्तनि सन्ति ‘ अत्र किं विशेष्यपदं प्रयुक्तम् ?
उत्तर:
(i) मल्लिका
(ii) जिह्वालोलुपताम्
(iii) मोदकानि।

16. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत – (केवलं प्रश्नचतुष्टयम्) [1 × 4 = 4]

(i) बालिका निर्धनमातुः दुहिता आसीत् ।
(ii) नन्दिनी पदाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति ।
(iii) वृक्षाः फलं न खादन्ति ।
(iv) खलु वारिवाहाः सस्यं नादन्ति ।
(v) परोपकाराय सतां विभूतयः ।
उत्तर:
(i) बालिका कस्या: दुहिता आसीत् ?
(ii) का पदाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति ?
(iii) वृक्षाः किम् न खादन्ति ?
(iv) खलु के सस्यं नादन्ति ?
(v) कस्मै सतां विभूतयः ?

17. अधोलिखितस्य श्लोकस्य अन्वये रिक्त स्थानपूर्ति कृत्वा पुनः लिख्यताम्- [1 × 3 = 3]

सुविचार्यं विधातव्यं कार्यं कल्याणकांक्षिणा ।
यः करोत्यविचार्यैतत् स विषीदति मानवः॥

अन्वयः
कल्याणकांक्षिणा (i) …….. सुविचार्य (एव) (ii) …….। यः मानवः (iii) ……. अविचार्य करोति सः विषीदति ।

मञ्जूषा- एतत्, विधातव्यम्, कार्यम्

अथवा
अधोलिखितस्य श्लोकस्य भावार्थे रिक्त स्थान पूर्तिं कृत्वा पुनः लिख्यताम्-
आदानस्य प्रदानस्य कर्त्तव्यस्य च कर्मणः
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ॥

भावार्थ:

अस्य श्लोकस्य भावः इदम् अस्ति यत् प्रत्येकं दिवसस्य (i) ………. तस्यैव दिवसे करणीयम् । यः जनः एतादृशः न करोति तु (ii) …….. कार्यं निष्फलं भवति। कालः तद् रसं पिवति । कार्यं (iii) ……… नहि करणीयम् सुविचार्य एव क्रियमाणं कार्यं एव सफलं भवति ।

मञ्जूषा- क्षिप्रम् कार्यम्, तत्
उत्तर:
कल्याणकांक्षिणा (i) कार्यं सुविचार्य (एव) (ii) विधातव्यम् । यः मानव: (iii) एतत् अविचार्य करोति सः विषीदति ।

अथवा

भावार्थ:

अस्य श्लोकस्य भावः इदम् अस्ति यत् प्रत्येकं दिवसस्य (i) कार्यं तस्यैव दिवसे करणीयम्। यः जनः एतादृशः न करोति तु (ii) तत् कार्यं निष्फलं भवति । कालः तद् रसं पिवति । कार्यं (iii) क्षिप्रम् नहि करणीयम्, सुविचार्य एव क्रियमाणं कार्यं एव सफलं भवति ।

18. घटनाक्रमानुसारं लिखत-

(i) हन्त! नास्त्यभावो जगति मूर्खाणाम् ।
(ii) अये कुतोऽयं कल्लोलोच्छलन ध्वनि: ?
(iii) पश्यामि तावत् ।
(iv) तीव्र प्रवाहायां नद्यां मृढोऽयं सिकताभिः सेतुं निर्मातुं प्रयतते ।
(v) अहमस्मि तपोदत्तः ।
(vi) तस्मात् सर्वै: कुटुम्बिभि: मित्रैः ज्ञातिजनैश्च गर्हितोऽभवम् ।
(vii) भवतु किमेतेन ? दिवसे मार्गभ्रान्तः सन्ध्यां यावद् यदि गृहमुपैति तदपि वरम् ।
(viii) बाल्ये पितृचरणैः क्लेश्यमानोऽपि विद्यां नाऽधीतवानस्मि ।
उत्तर:
(i) अहमस्मि तपोदत्तः।
(ii) बाल्ये पितृचरणैः क्लेश्यमानोऽपि विद्यां नाऽधीतवानस्मि ।
(iii) तस्मात् सर्वै: कुटुम्बिभि: मित्रैः ज्ञातिजनैश्च गर्हितोऽभवम्।
(iv) भवतु किमेतेन ? दिवसे मार्गभ्रान्तः सन्ध्यां यावद् यदि गृहमुपैति तदपि वरम्।
(v) अये कुतोऽयं कल्लोलोच्छलन ध्वनि: ?
(vi) पश्यामि तावत्।
(vii) हन्त ! नास्त्यभावो जगति मूर्खाणाम्।
(viii) तीव्र प्रवाहायां नद्यां मूढोऽयं सिकताभिः सेतुं निर्मातुं प्रयतते।

19. (क) अधोलिखितानां रेखांकितपदानां प्रसङ्गानुकूलम् उचितार्थं चिनुत । (केवलं प्रश्नचतुष्टयम्) [1/2 × 4 = 2](i) एक : विचित्र : काकः समुड्डीय ताम् उपाजगाम्
(ii) सरितो गिरिनिर्झराः च अमृत स्वादु निर्मलंजलं प्रयच्छन्ति ।
(iii) यन्त्रागाराणां विषाक्तं जलं नद्यां निपात्यते ।
(iv) तपस्यारतः तपोदत्तः प्रविशति ।
(v) सः रावणं निरीक्ष्य क्षिप्रं वैदेहीं ददर्श ।
मञ्जूषा- यन्त्रालयानाम्. पर्वतानां प्रपातः, सीताम् तपः कुर्वन्, समीपं आगतवान्
उत्तर:
(i) समीपम् आगतवान्
(ii) पर्वतानां प्रपातः
(iii) यन्त्रालयानां
(iv) तप: कुर्वन्
(v) सीताम्

(ख) अधोलिखितानां शब्दानाम् अर्थैः सह मेलनं कुरुत – (केवलं प्रश्नचतुष्टयम्) [1/2 × 4 = 2]

(i) मञ्जरी – पुष्पसमूहे
(ii) पुष्पपुञ्जे – आम्रकुसुमम्
(iii) विभूतयः – कर्त्तव्यसारः
(iv) धर्मसर्वस्वम् – समृद्धयः
(v) विषीदति – अवसीदति
उत्तर:
(i) मञ्जरी – आम्रकुसुमम्
(ii) पुष्पपुञ्जे – पुष्पसमूहे
(iii) विभूतयः – समृद्धयः
(iv) धर्मसर्वस्वम् – कर्त्तव्यसार:
(v) विषीदति – अवसीदति


Show More
यौगिक किसे कहते हैं? परिभाषा, प्रकार और विशेषताएं | Yogik Kise Kahate Hain Circuit Breaker Kya Hai Ohm ka Niyam Power Factor Kya hai Basic Electrical in Hindi Interview Questions In Hindi