Article

CBSE Sample Papers for Class 9 Sanskrit Set 3 with Solutions

Students must start practicing the questions from CBSE Sample Papers for Class 9 Sanskrit with Solutions Set 3 are designed as per the revised syllabus.

CBSE Sample Papers for Class 9 Sanskrit Set 3 with Solutions

समय: 3 होराः
पूर्णांक: 80

सामान्यनिर्देशाः

  • कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 11 पृष्ठानि मुद्रितानि सन्ति ।
  • कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 19 प्रश्नाः सन्ति ।
  • अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः सन्ति ।
    ‘क’ खण्ड: : अपठितावबोधनम् 10 अङ्काः
    ‘ख’ खण्डः : रचनात्मककार्यम् 15 अङ्काः
    ‘ग’ खण्डः : अनुप्रयुक्तव्याकरणम् 25 अङ्काः
    ‘घ’ खण्डः : पठितावबोधनम् 30 अङ्काः
  • प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि ।
  • उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः ।
  • प्रश्नस्य क्रमाङ्कः प्रश्नपत्रानुसारम् एव लेखनीयः ।
  • सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
  • प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।

(खंड ‘क’)
(अपठित अवबोधनम्) (10 अंङ्का:)

1. अधोलिखितम् गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत । [10

सत्सङ्गतेः महिमानं को न जानाति ? संसारे सज्जनाः दुर्जनाः अपि च सन्ति । दुर्जनस्य सङ्गतिं कोऽपि कर्तुं न इच्छति । अपरत्र मत्सङ्गं विना मानवस्य जीवनम् एव दुर्जीवनं भवति । वस्तुतः सत्सङ्गतिः जनानां पोषिका कुसङ्गतिश्च नाशिका । सर्वे जनाः स्वपोषमेव इच्छन्ति विनाशं तु नैव इच्छन्ति । अतः सत्सङ्गति एव श्रेयसी । सज्जनाः तु स्वगुणैः एव सन्तः कथ्यन्ते, अत एव जना: मज्जनानां गुणेभ्यः स्पृहयन्ति । सद्गुणेनैव जनः मनसा वाचा कर्मणा स्वस्थो भवति । तेन तस्य आयुः वर्धते, यशः अपि सततं वर्धते । को न जानाति यत् सर्वेषां देशानां महापुरुषाः अपि सत्सङ्गत्या श्रेष्ठां पदवीं प्राप्नुवन्। उक्तम् हि भवभूतिना-‘सत्सङ्गजानि निधानान्यपि तारयन्ति’।

प्रश्ना:

(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम् )

(i) किं विना मानवस्य जीवनं दुर्जीवनं भवति ?
उत्तर:
सत्सङ्गम्

(ii) सत्संगतिः केषां पोषिका अस्ति ?
उत्तर:
जनानाम्

(iii) सज्जनाः दुर्जना: च कुत्र सन्ति ?
उत्तर:
संसारे।

(आ) पूर्णवाक्येन उत्तरत—(केवलं प्रश्नद्वयम्)

(i) सत्संगतेः विषये भवभूतिना किम् उक्तम् ?
उत्तर:
सत्संगतेः विषये भवभूतिना उक्तम् यत् सत्सङ्गजानि निधानान्यपि तारयन्ति।

(ii) संसारे कीदृशाः जनाः सन्ति ?
उत्तर:
संसारे सज्जनाः दुर्जनाः अपि च सन्ति।

(iii) स्वगुणै: के सन्तः कथ्यन्ते ?
उत्तर:
सज्जनाः तु स्वगुणैः एव सन्तः कथ्यन्ते ।

(इ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत ।
उत्तर:
सत्सङ्गति महिमा ।

(ई) भाषिक कार्यम् – (केवलं प्रश्नत्रयम्) [1 × 1 = 1]

(i) “तेन तस्य आयुः वर्धते” अत्र कर्तृपदम् किम् ? [1 × 3 = 3](क) तेन
(ख) तस्य
(ग) आयुः
(घ) वर्धते
उत्तर:
(ग) आयुः

(ii) ‘नाशिका’ पदस्य किं विपर्ययम् अनुच्छेदे प्रयुक्तम् ?
(क) पोषिका
(ख) श्रेयसी
(ग) श्रेष्ठा
(घ) मनसा
उत्तर:
(क) पोषिका

(iii) ‘सर्वेषां देशानां महापुरुषाः अपि सत्संगत्या श्रेष्ठां पदवीं प्राप्नुवन् । ‘अत्र’ श्रेष्ठाम्’ इति कस्य पदस्य विशेषणमस्ति ?
(क) देशानाम्
(ख) महापुरुषाणाम्
(ग) पदवीम्
(घ) सर्वेषां
उत्तर:
(ग) पदवीम्

(iv) ‘महापुरुषाः अपि सतसंगत्या श्रेष्ठां पदवीं प्राप्नुवन्’ इत्यत्र किं क्रियापदम् ?
(क) अपि
(ख) प्राप्नुवन्
(ग) पदवीम्
(घ) श्रेष्ठां
उत्तर:
(ख) प्राप्नुवन्।

(खंड ‘ख’)
(रचनात्मकं कार्यम्) [15 अंङ्का:]

2. भवान् विजयः दिल्लीनगरे वसति । भवतः मित्रम् पीयूष : शिमलानगरे वसति । दिल्लीनगरे घटितां विमानदुर्घटनां वर्णयता स्वमित्रं प्रति लिखितं पत्रं मञ्जूषातः पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत।

बी. किदवई नगरम्

(i) ………….
दिनाङ्क : ………….
प्रियमित्र (ii) …………
सप्रेम नमस्ते।

अत्र (iii) ……….. तत्रास्तु। मित्र! ह्यः प्रात: दिल्लीनगरे (iv) ………… आकस्मिक-विमानदुर्घटनायां देशस्य नागरिक विमानयानमन्त्रिणा सह (v) ………, जनाःव्रणिता:जाताः। चैन्नई नगरं प्रति प्रस्थितं तत् (vi) …………. तान्त्रिकविफलताकारणात् निमेषत्रयानन्तरमेव अंवतरणम् अकरोत् । तदैव विमानस्य पृष्ठभागे अग्निस्पर्शः जातः । तेन (vii) ……….. यात्रिणः झटिति विमानात् बहिः (viii) ……… प्रयत्नम् अकुर्वन्। तदा जाते सम्मर्दे तत्र यात्रां कुर्वन् नागरिक- विमानयानमन्त्री अपि व्रणितः अस्ति। शीघ्रं सर्वे चिकित्सालयं प्रवेशताश्च । कुशलमन्यत् । स्वपितरौ प्रति मम प्रणामाः (ix) ………… ।

भवदीयः अभिन्नहृदयः
(x)……………..

मञ्जूषा
विमानम्, आगन्तुम्, नवदिल्लीत:, विजय:, विंशति:, निवेदनीया:, पीयूष !, भीता:, कुशलम्, विमानपत्तने ।
उत्तर:
बी. – 22, किदवई नगरम्
(i) नवदिल्लीत:
दिनाङ्क : …………..
प्रियमित्र (ii) पीयूष:
सप्रेम नमस्ते।
अत्र (iii) कुशलं तत्रास्तु। मित्र ! ह्यः प्रातः दिल्लीनगरे (iv) विमानपत्तने आकस्मिक – विमानदुर्घटनायाम् देशस्य नागरिक विमानयानमन्त्रिणा सह (v) विंशतिः जनाः व्रणिता : जाताः। चैन्नई नगरं प्रति प्रस्थितं तत् (vi) विमानं तान्त्रिकविफलताकारणात् निमेषत्रयानन्तरमेव अवतरणम् अकरोत् । तदैव विमानस्य पृष्ठभागे अग्निस्पर्श: जात: । तेन (vii) भीता: यात्रिणः झटिति विमानात् बहिः (viii) आगन्तुं प्रयत्नम् अकुर्वन् । तदा जाते सम्मर्दे तत्र यात्रां कुर्वन् नागरिक – विमानयानमन्त्री अपि व्रणितः अस्ति । शीघ्रं सर्वे चिकित्सालयं प्रवेशताश्च । कुशलमन्यत् । स्वपितरौ प्रति मम प्रणामाः (ix) निवेदनीयाः
भवदीयः अभिन्नहृदयः
(x) विजय:

3. मञ्जूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्चवाक्यानि संस्कृतेन लिखत । [1 × 5 = 5]

मञ्जूषा
सूर्य:, वृक्षाः, मयूरः, उदेति, नृत्यति, बालकौ, कन्दुकेन, बालिका, पुष्पाणि, उद्यानम्, धावतः, , क्रीडति, बकौ, खगाः, हरीतिमा, परस्परम्, प्रसन्नाः।
उत्तर:
(i) इदम् उद्यानस्य चित्रमस्ति ।
(ii) बालकौ बालिका च कन्दुकेन क्रीडन्ति ।
(iii) उद्याने मयूरः नृत्यति ।
(iv) प्रात:काले सूर्य : उदेति ।
(v) बकौ परस्परं वार्तालापं कुरुतः ।

अथवा

मञ्जूषायां प्रदत्तशब्दानां सहायतया ‘वृक्षारोपणम्’ इति विषयम् अधिकृतपञ्चवाक्यानि लिखत ।
मञ्जूषा
‘फलानि, यच्छन्ति, प्रकृतेः, वृक्षाः, मित्राणि, अस्मभ्यम्, पुष्पाणि, संरक्षणम्, वर्धयन्ति ।
उत्तर:
(i) वृक्षाः प्रकृतेः शोभां वर्धयन्ति ।
(ii) वृक्षा: मनुष्याणां मित्राणि भवन्ति ।
(iii) वृक्षाः फलानि पुष्पाणि काष्ठानि च यच्छन्ति ।
(iv) वृक्षा: पर्यावरणस्य रक्षकाः भवन्ति ।
(v) वृक्षाणां रोपणेन भूमौ संरक्षणं भवति ।

4. हिन्दी भाषया आङ्गलभाषया वा लिखितानां वाक्यानां संस्कृतेन अनुवादः क्रियताम् । (केवलं पञ्चवाक्यम्)

(i) वृक्ष से पत्ते गिरते हैं।
Leaves fall from the tree.
(ii) उद्यान में बालक और बालिकाएँ खेल रही हैं।
Boys and girls are playing in garden.
(iii) भारद्वाज मुनि यहाँ आश्रम बनाकर रहते थे ।
Sage Bhardwaj built a hermitage to live here.
(iv) हिमालय हिम का आलय है।
Himalaya is the house of Ice.
(v) मैं आज विद्यालय नहीं जाऊँगा ।
I will not go to school today.
(vi) मैं विद्यालय से घर जा रहा हूँ ।
I am going to home from school.
(vii) उसका नाम ऋषि कुमार है।
His name is Rishi Kumar.
उत्तर:
(i) वृक्षात् पत्राणि पतन्ति ।
(ii) उद्याने बालकाः बालिकाश् च क्रीडन्ति ।
(iii) भारद्वाज : मुनिः अत्र आश्रमं निर्मायित्वा अवसत्।
(iv) हिमालय : हिमस्य आलयः अस्ति ।
(v) अहम् अद्य विद्यालयं न गमिष्यामि ।
(vi) अहं विद्यालयात् गृहं गच्छामि।
(vii) तस्य नाम ऋषिकुमारः अस्ति ।

(खंड ‘ग’) [25 अंङ्काः]
(अनुप्रयुक्त व्याकरणम्)

5. अधोलिखितवाक्येषु रेखाङ्कितपदानां सन्धिं-सन्धिविच्छेदं वा कृत्वा लिखत – (केवलं प्रश्न चतुष्टयम्)

(i) रामः पुस्तकं पठितुम् पुस्तकालयं गच्छति ।
उत्तर:
पुस्तक + आलयम्

(ii) ब्राह्मणः राज्ञा श्राद्ध + अर्थं निमन्त्रितः ।
उत्तर:
श्राद्धार्थम्

(iii) गुरवागते छात्रा: तूष्णीम् अभवन्।
उत्तर:
गुरवा + आगते

(iv) न कोऽपि मामिव वृथा कालक्षेपं सहते।
उत्तर:
क: + अपि

(v) धन्योऽसि तात ! धन्योऽसि
उत्तर:
धन्यः + असि

6. उचित शब्दरूपाणि चित्वा रिक्तस्थानानि पूरयत – (केवलं प्रश्नचतुष्टयम्) [1 × 4 = 4]

(i) शिष्य: ………… फलानि यच्छति ।
(क) गुरुं
(ख) गुरवे
(ग) गुरु:
(घ) गुरोः
उत्तर:
(ख) गुरवे

(ii) मनुष्यः ………. शोभते ।
(क) विद्याया:
(ख) विद्याभ्यः
(ग) विद्यया
(घ) विद्यां
उत्तर:
(ग) विद्यया

(iii) रात्रौ आकाशे ……….. राजते ।
(क) चन्द्रेण
(ख) चन्द्रः
(ग) चन्द्राय
(घ) चन्द्रं
उत्तर:
(ख) चन्द्रः

(iv) तस्माद् तदेव वक्तव्यं ……….. का दरिद्रता ?
(क) वचनम्
(ख) वचने
(ग) वचनाय
(घ) वचनस्य
उत्तर:
(ख) वचने

(v) तन्द्रालुः ……… लज्जया तेषां दृष्टपथमपि परिहरन् प्राविशत्।
(क) बाल:
(ख) बालम्
(ग) बाला:
(घ) बालाम
उत्तर:
(क) बालः ।

7. उचितधातुरूपाणि चित्वा रिक्तस्थानानि पूरयत – (केवलं प्रश्नचतुष्टयम्) [1 × 4 = 4]

(i) राम : श्यामः च पितरौ …….
(क) सेवते
(ख) सेवेते
(ग) सेवे
(घ) सेवन्ते
उत्तर:
(ख) सेवेते

(ii) वयं संस्कृतं………।
(क) पठ
(ख) पठतम्
(ग) पठामः
(घ) पठावः
उत्तर:
(ग) पठामः

(iii) अहम् पितरम्………।
(क) सेविष्ये
(ख) सेवेय
(ग) सेवै
(घ) सेवावहे
उत्तर:
(क) सेविष्ये

(iv) हे लते! उच्चैः……….।
(क) पठ
(ख) पठत
(ग) पठतु
(घ) पठताम्
उत्तर:
(क) पठ

(v) ह्यः त्वं कुत्र…….?
(क) अस्ति
(ख) रक्तः
(ग) आसीः
(घ) आसीत्
उत्तर:
(ग) आसी।

8. अद्यः प्रदत्तशब्दयोः उचितविभक्तिप्रयोगेण वाक्यं पूरयत। (केवलं प्रश्नचतुष्टयम्)

(i) ……….. हीनः मनुष्यः स्वर्गं न लभते ।
(क) धर्मम्
(ख) धर्मात्
(ग) धर्मेण
(घ) धर्मस्य
उत्तर:
(ग) धर्मेण

(ii) ……… निकषा एव रामेश्वरम् अस्ति ।
(क) कन्याकुमारीं
(ख) कन्यकुमारी
(ग) कन्याकुमार्याः
(घ) कन्याकुमारीयाम्
उत्तर:
(क) कन्याकुमारीं

(iii) ……….. अधः नदी बहति।
(क) पर्वतेन
(ख) पर्वतस्य
(ग) पर्वतः
(घ) पर्वतान्
उत्तर:
(ख) पर्वतस्य

(iv) ………. परितः वायुमण्डलम् स्वच्छम् अस्ति।
(क) वनम्
(ख) वनस्य
(ग) वनात्
(घ) वनेन
उत्तर:
(क) वनम्

(v) यूयं ……….. बहिः मा गच्छत।
(क) कक्षां
(ख) कक्षायाः
(ग) कक्षा
(घ) कक्षात्
उत्तर:
(ख) कक्षायाः ।

9. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा रिक्तस्थानानि पूरयत – (केवलं प्रश्न-त्रयम्)

(i) मातरं ………. बालः प्रसन्नः भवति। (वि + ईक्ष् + ल्यप्)
(क) विक्ष्य
(ख) वीक्षय
(ग) वीक्ष्य
(घ) वीक्षयं
उत्तर:
(ग) वीक्ष्य

(ii) प्रश्नं …….. छात्रः गुरुं प्रति गच्छति। (प्रच्छ् + तुमुन्)
(क) प्रच्छतुम्
(ख) प्रष्टुम्
(ग) प्रच्छुम्
(घ) प्रश्नुम्
उत्तर:
(ख) प्रष्टुम्

(iii) देशं ……….. सैनिकाः गृहं प्रत्यागच्छन्ति। (सेव् + क्त्वा)
(क) सेवत्वा
(ख) सेवित्य
(ग) सेवित्वा
(घ) सेविताः
उत्तर:
(ग) सेवित्वा

(iv) विष्णु शर्मा ………. नृपम् अवदत्। (प्र + हस् + ल्यप्)
(क) प्रहसत्
(ख) प्रहास्य
(ग) प्रहस्य
(घ) प्रहसताम्
उत्तर:
(ग) प्रहस्य

10. संख्यावाचिशब्दरूपाणाम् रिक्त स्थानानि पूरयत । (केवलं प्रश्न – चतुष्टयम् )

(i) ………… सरोवरेषु कमलानि सन्ति । (त्रि)
उत्तर:
त्रिषु

(ii) शरीरे …….. इन्द्रयाणि सन्ति। (पञ्च)
उत्तर:
द्वौ

(iii) ………… महिला पुरस्कारं लब्धवती । (एक)
उत्तर:
पञ्च

(iv) ……… निर्धना वृद्धा स्त्री न्यवसत्। (एक)
उत्तर:
एका

(v) कर्णौ ……….. स्त:। (द्वे)
उत्तर:
एका,

11. रेखाङ्कितपदेषु उपसर्गं पृथक् क्रियताम्। (केवलं प्रश्नचतुष्टयम्)

(i) गगन कुसुमं प्राप्तुं दुष्करं भवति ।
उत्तर:
दुस्

(ii) शिवाजीराज: दुस्साहसं कृत्वा राज्ये प्रविष्टवान् ।
उत्तर:
दुस्

(iii) दुर्जनेन मैत्री न कर्तव्यः ।
उत्तर:
दुर्

(iv) स्वर्णकाकं निवारयन्ती बालिका प्रार्थयत्
उत्तर:
प्रा

(v) अत्र एकतायाः मधुरा धारा प्रवहति
उत्तर:
प्र ।

12. मञ्जूषायाः उचितम् अव्ययपदं चित्वा वाक्येषु रिक्त स्थानानि पूरयत – (केवलं प्रश्नचतुष्टयम्) [1/2 × 4 = 2]

(i) ……….. किं भविष्यति ?
(क) अध
(ख) अधुना
(ग) तत्र
(घ) श्वः
उत्तर:
(घ) श्वः

(ii) सः ……… पठति ?
(क) कुतः
(ख) वदा
(ग) कुत्र
(घ) कस्मै
उत्तर:
(ख) कदा

(iii) अहं …….. गच्छामि।
(क) यत्र
(ख) तत्र
(ग) अत्र
(घ) अदि
उत्तर:
(ख) तत्र

(iv) अहं ……. विद्यालयं गच्छामि ।
(क) अपि
(ख) अधुना
(ग) एवं
(घ) सम्यक्
उत्तर:
(ख) अधुना

(v) यथा अहं पश्यामि ……….. एव करिष्यामि ।
(क) यदि
(ख) तर्हि
(ग) तथा
(घ) तथा
उत्तर:
(ग) तथा ।

(खंड ‘घ’) [30 अंङ्काः]
(पठित-अवबोधनम्)

13. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- [5]

पुरा कस्मिंश्चिद् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत् । तस्याः च एका दुहिता विनम्रा मनोहरा चासीत्। एकदा माता स्थाल्यां तण्डुलान्निक्षिप्य पुत्रीम् आदिशत्-सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। किञ्चित्कालादनन्तरम् एको विचित्रः काकः समुड्डीय तामुपजगाम ।

प्रश्नाः

(अ) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्)

(i) कुत्र एका निर्धना वृद्धा स्त्री न्यवसत् ?
(ii) तस्याश्चैका दुहिता कीदृशी आसीत् ?
(iii) किञ्चित्कालादनन्तरं कः समीपम् अगच्छत् ?
उत्तर:
(i) ग्रामे
(ii) विनम्रा मनोहरा च
(iii) काक:

(आ) पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्) [1 × 2 = 2]

(i) माता पुत्रीम् किम् आदिदेश ?
(ii) काक: कीदृशः आसीत् ?
(iii) वृद्धा स्त्री कीदृशा आसीत् ?
उत्तर:
(i) माता पुत्रीम् आदिदेश- सूर्यातपे तण्डुलान् खगेभ्यो रक्ष ।
(ii) काकः विचित्रः आसीत् ।
(iii) वृद्धा स्त्री निर्धना आसीत् ।

(इ) भाषिक कार्यम् – (केवलं प्रश्नद्वयम्)

(i) अत्र गद्यांशे ‘सुता’ इत्यर्थे कः पर्यायाः प्रयुक्त ?
(ii) पुरा कस्मिंश्चिद् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत् – अत्र अस्मिन् वाक्ये किम् विशेष्य पदं प्रयुक्तं ?
(iii) ‘एको विचित्रः काकः समुड्डीय तस्या: समीपम् अगच्छत्’ अत्र किं क्रियापदं प्रयुक्तं ?
उत्तर:
(i) दुहिता
(ii) वृद्धा
(iii) अगच्छत्

14. अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत-

यत्रापि कुत्रापि गता भवेयु
हंसा महीमण्डलमण्डनाय ।
हानिस्तु तेषां हि सरोवराणां
येषां मरालैः सह विप्रयोगः ॥

प्रश्ना:

(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) [1/2 × 2 = 1]

(i) हंसा: यत्र कुत्रापि किमर्थं भवेयुः ?
(ii) सरोवर: कैः विभाति ?
(iii) केषां हानिः भवति ?
उत्तर:
(i) महीमण्डलमण्डनाय,
(ii) मरालैः,
(iii) सरोवराणाम्

(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) [1 × 2 = 2](i) सरोवराणां हानिः कदा भवति ?
(ii) मरालै: सह विप्रयोगेन केषां हानि: भवति ?
(iii) हंसा: किं कुर्वन्ति ?
उत्तर:
(i) सरोवराणां हानि: तदा भवति यदा मरालैः सह तेषां विप्रयोगः भवति ।
(ii) मरालैः सह विप्रयोगेन सरोवराणां हानिः भवति ।
(iii) हंसाः सरोवराणां शोभावृद्धिं कुर्वन्ति ।

(इ) भाषिक कार्यम् – (केवलं प्रश्नद्वयम्)
(i) ‘हंसै’: इत्यर्थे अत्र कः पर्यायः प्रयुक्तः ?
(ii) ‘यत्रापि कुत्रापि गता भवेयुः’ अत्र किं क्रियापदं प्रयुक्तम् ?
(iii) ‘संयोगः’ पदस्य किं विलोमपदं प्रयुक्तम् ?
उत्तर:
(i) मरालैः
(ii) भवेयुः
(iii) विप्रयोगः

15. अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- [5]

चन्दनः – ग्रामप्रमुखस्य गृहे महोत्सव : मासान्ते भविष्यति । तत्र त्रिशत् – सेटकमितं दुग्धम् अस्माभिः दातव्यम् अस्ति ।
मल्लिका – किन्तु एतावन्मात्रं दुग्धं कुतः प्राप्स्यामः ।
चन्दनः – विचारय मल्लिके! प्रतिदिनं दोहनं कृत्वा दुग्धं स्थापयामः चेत् तत् सुरक्षितं न तिष्ठति । अत एव दुग्धदोहनं न क्रियते । उत्सवदिने एव समग्रं दुग्धं धोक्ष्यावः ।
मल्लिका – स्वामिन्! त्वं तु चतुरतमः । अत्युत्तमः विचारः । अधुना दुग्धदोहनं विहाय केवलं नन्दिन्याः सेवाम् एव करिष्यावः । अनेन अधिकाधिकं दुग्धं मासान्ते प्राप्स्यावः ।
(द्वावेव धेनोः सेवायां निरतौ भवतः । अस्मिन् क्रमे घासादिकं गुडादिकं च भोजयतः । कदाचित् विषाणयोः तैलं लेपयतः तिलकं धारयतः, रात्रौ नीराजनेनापि तोषयतः)
चन्दनः – मल्लिके:! आगच्छ। कुम्भकारं प्रति चलावः । दुग्धार्थं पात्रप्रबन्धोऽपि करणीयः । ( द्वावेव निर्गतौ)

प्रश्ना:

(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम् )

(i) मासान्ते कस्य गृहे महोत्सवः भविष्यति ?
(ii) चन्दनः कं प्रति चलति ?
(iii) किं सुरक्षितं तिष्ठति ?
उत्तर:
(i) ग्रामप्रमुखस्य
(ii) कुम्भकारं
(iii) दुग्धम्।

(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)

(i) ‘उत्सवदिने एव समग्रं दुग्धं धोक्ष्यावः’ इति कः विचारयति ?
(ii) कौ सेवायां निरतौ भवतः ?
(iii) ते प्रतिदिनं दुग्धदोहनं किमर्थ न क्रियते ?
उत्तर:
(i) ‘उत्सवदिने एव समग्रं दुग्धं धोक्ष्यावः’ इति चन्दनः विचारयति।
(ii) मल्लिकाचन्दनौ द्वावेव धेनोः सेवायां निरतौ भवतः ।
(iii) प्रतिदिनं दोहनं कृत्वा दुग्धं स्थापयामः चेत् तत् सुरक्षितं न तिष्ठति । अतएव ते दुग्ध दोहनं न क्रियते ।

(इ) निर्देशानुसारम् उत्तरत (भाषिक कार्यम्) – (केवलं प्रश्नद्वयम्)
(i) ‘ग्रामप्रमुखस्य गृहेमहोत्सव : मासान्ते भविष्यति’ इत्यत्र किं क्रियापदं प्रयुक्तम् ?
(ii) ‘द्वावेव धेनोः सेवायां निरतौ भवतः ‘ अत्र किं कर्तृपदं प्रयुक्तम् ?
(iii) ‘तत्र त्रिंशत सेटकमितं दुग्धम् अस्माभिः दातव्यम्’ अत्र किं विशेष्यपदं प्रयुक्तम् ?
उत्तर:
(i) भविष्यति
(ii) द्वौ
(iii) दुग्धम्

16. रेखाङ्कितपदानि अनुसृत्य प्रश्ननिर्माणं कृत्वा पूर्णवाक्येषु लिखत – (केवलं प्रश्नचतुष्टयम्)

(i) वनवृक्षा: निर्विवेकं छिद्यन्ते ।
(ii) वृक्षकर्तनात शुद्धवायुः न प्राप्यते ।
(iii) प्रकृति: जीवनसुखं प्रददाति ।
(iv) अजातशिशु मातृगर्भे सुरक्षितः तिष्ठति।
(v) प्राचीनकाले लोकमङ्गलाशंसिनः ऋषयो वने निवसन्ति स्म ।
उत्तर:
(i) <u>के</u> निर्विवेकं छिद्यन्ते ?
(ii) वृक्षकर्तनात् <u>किम्</u> न प्राप्यते ?
(iii) प्रकृतिः <u>किम्</u> प्रददाति ?
(iv) अजातश्शिशुः <u>कुत्र</u> सुरक्षित: तिष्ठति ?
(v) <u>कदा</u> लोकमङ्गलाशसिनः ऋषयो वने निवसन्ति स्म ?

17. अधोलिखितस्य श्लोकस्य अन्वये रिक्त स्थान पूर्ति क्रियताम् – [1 × 3 = 3]

श्लोक-
पिबन्ति नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति फलानि वृक्षाः ।
नादन्ति सस्यं खलु वारिवाहाः,
परोपकाराय सतां विभूतयः ॥

अन्वयः

नद्य: (i) …….. अम्भः न पिबन्ति, वृक्षा: स्वयं (ii) …….. न खादन्ति । खलु (iii) …….. सस्यं नादन्ति सतां विभूतयः परोपकाराय (एव भवन्ति) ।

मञ्जूषा- स्वयमेव, वारिवाहाः, फलानि
उत्तर:
नद्य: (i) स्वयमेव अम्भः न पिबन्ति, वृक्षाः स्वयं (ii) फलानि न खादन्ति । खलु (iii) वारिवाहाः सस्यं नादन्ति सतां विभूतयः परोपकाराय एव (भवन्ति) ।
अथवा

अधोलिखितस्य श्लोकस्य भावार्थे रिक्त स्थान पूर्तिं कृत्वा पुनः लिख्यताम्-

श्लोकः
जटायो पश्य मामार्य ह्रियमाणामनाथवत्।
अनेन राक्षसेन्द्रेण करुणं पापकर्मणा ॥

भावार्थ:
प्रस्तुते श्लोके सीता (i) ………. कथयति-‘जटायो! पश्य’ माम् अयं रावण: (ii) …….. कुर्वत् नयति । अयं दानवपतिः पाप कर्म कृत्वा (iii) ………… दुःसाहसेन आकर्षयति । अनेन असुरः रावणेन अनाथेन समं नीयमानं मां पश्य।

मञ्जूषा- अपहरणम्, जटायुम्, माम्
उत्तर:
भावार्थ:-
प्रस्तुते श्लोके सीता (i) जटायुं कथयति – ‘जटायो । पश्य’ माम् अयं रावण: (ii) अपहरणं कुर्वत् नयति । अयं दानवपतिः पाप कर्मं कृत्वा (iii) मां दुःसाहसेन आकर्षयति । अनेन असुरः रावणेन अनाथेन समं नीयमानम् मां पश्य।

18. घटनाक्रमानुसारं लिखत-

(i) अहमागता, मह्यं तण्डुलमूल्यं प्रयच्छ।
(ii) स्वर्णकाकस्तां भोजनमपि ताम्रभाजने ह्यकारयत ।
(iii) लुब्धया बालिकया लोभस्य फलं प्राप्तम्।
(iv) सूर्यातपे तण्डुलान्निक्षिप्य तयापि स्वसुता रक्षार्थं नियुक्ता ।
(v) तस्याः एका अपि पुत्री आसीत्।
(vi) तथैव स्वर्णपक्षः काकः तण्डुलान् भक्षयन् तामपि तत्रैवाकारयत्।
(vii) तदनन्तरं सा लोभं पर्यत्यजत् ।
(viii) तस्मिन्नेव ग्रामे एकाऽपरा लुब्धा वृद्धा न्यवसत् ।
उत्तर:
(i) तस्मिन्नेव ग्रामे एकाऽपरा लुब्धा वृद्धा न्यवसत्।
(ii) तस्याः एका अपि पुत्री आसीत् ।
(iii) सूर्यातपे तण्डुलान्निक्षिप्य तयापि स्वसुता रक्षार्थं नियुक्ता ।
(iv) तथैव स्वर्णपक्षः काकः तण्डुलान् भक्षयन् तामपि तत्रैवाकारयत्।
(v) अहमागता, मह्यम् तण्डुलमूल्यं प्रयच्छ ।
(vi) स्वर्णकाकस्तां भोजनमपि ताम्रभाजने ह्यकारयत् ।
(vii) लुब्धया बालिकया लोभस्य फलं प्राप्तम्।
(viii) तदनन्तरं सा लोभं पर्यत्यजत् ।

19.
(क) प्रसङ्गानुकूलं उचितार्थं लिखत – (केवलं प्रश्नचतुष्टयम्)
(i) गुणज्ञेषु गुणा: भवन्ति।
(ii) खल सज्जनां मैत्री पूर्वार्द्धपरार्द्ध भिन्ना छायेव भवति।
(iii) वित्तम् एति च याति च।
(iv) अरिन्दमः खगाधिपः जटायुः तम् व्यपाहरत् ।
(v) पुरुषार्थैः एव लक्ष्यं प्राप्यते ।

मञ्जूषा
गुणवत्सुजनेषु, धनम्, पक्षिराजः, पूर्वाद्वैन परार्द्धेन च पृथक्भूता, उद्यमेन
उत्तर:
(i) गुणवत्सुजनेषु,
(ii) पूर्वाद्धेन परार्द्धेन च पृथक्भूता
(iii) धनम्
(iv) पक्षिराजः
(v) उद्यमेन।

(ख) अधोलिखितानां शब्दानाम् अर्थैः सह मेलनं कुरुत – (केवलं प्रश्नचतुष्टयम्) [1/2 × 4 = 2]

(i) रिक्तः – एक लीटर मितम्
(ii) सेटकम् – शून्याः
(iii) उपैति – जलबन्धः
(iv) सेतु: – अन्नमयम्
(v) मनः – समीपं गच्छति
उत्तर:
(i) रिक्तः – शून्या:
(ii) सेटकम् – एक लीटर मितम्
(iii) उपैति – समीपं गच्छति
(iv) सेतु: – जलबन्धः
(v) मनः – अन्नमयम्


Show More

Related Articles

यौगिक किसे कहते हैं? परिभाषा, प्रकार और विशेषताएं | Yogik Kise Kahate Hain Circuit Breaker Kya Hai Ohm ka Niyam Power Factor Kya hai Basic Electrical in Hindi Interview Questions In Hindi