Electrical

CBSE Sample Papers for Class 9 Sanskrit Set 2 with Solutions

Students must start practicing the questions from CBSE Sample Papers for Class 9 Sanskrit with Solutions Set 2 are designed as per the revised syllabus.

CBSE Sample Papers for Class 9 Sanskrit Set 2 with Solutions

समय: 3 होराः
पूर्णांक: 80

सामान्यनिर्देशाः

  • कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 11 पृष्ठानि मुद्रितानि सन्ति ।
  • कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 19 प्रश्नाः सन्ति ।
  • अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः सन्ति ।
    ‘क’ खण्ड: : अपठितावबोधनम् 10 अङ्काः
    ‘ख’ खण्डः : रचनात्मककार्यम् 15 अङ्काः
    ‘ग’ खण्डः : अनुप्रयुक्तव्याकरणम् 25 अङ्काः
    ‘घ’ खण्डः : पठितावबोधनम् 30 अङ्काः
  • प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि ।
  • उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः ।
  • प्रश्नस्य क्रमाङ्कः प्रश्नपत्रानुसारम् एव लेखनीयः ।
  • सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
  • प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।

(खंड ‘क’)
(अपठित अवबोधनम्) (10 अंङ्का:)

1. अधोलिखितम् गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत ।

भारतवर्षः अस्माकं देशः अस्ति । भारते सर्वत्र विविधता अस्ति । यथा — अत्र जनानां विविधाः सम्प्रदायाः, वेशभूषाः च सन्ति । परम् अनेकतायाम् अपि एकतायाः मधुरा धारा प्रवहति । अस्मिन् देशे सर्वे ऋतवः क्रमेण आगच्छन्ति । ते वसन्तः, ग्रीष्मः, वर्षा, शरद, हेमन्तः, शिशिरः च सन्ति । अत्र सर्वे भाषा-भाषिणः एकं राष्ट्रध्वजं नमन्ति एकं च राष्ट्रगानं गायन्ति । राष्ट्रीय-उत्सवान् सामाजिक उत्सवान् च मिलित्वा मानयन्ति । “प्रायः जनाः उत्सवेषु धार्मिक कार्येषु च संस्कृतभाषायां मन्त्रोच्चारणं कुर्वन्ति । यतः सर्व-संस्काराणां जननी संस्कृत भाषा एव अस्ति । अतः कथ्यते – भारतीया संस्कृतिः संस्कृते एव निहिता अस्ति ।”

प्रश्ना:

(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) [1 × 2 = 2]

(i) भारते सर्वत्र का अस्ति ?
उत्तर:
विविधता

(ii) केषां जननी संस्कृतभाषा अस्ति ?
उत्तर:
सर्व-संस्काराणाम्

(iii) भारतीया संस्कृति: कुत्र निहिता अस्ति ?
उत्तर:
संस्कृते ।

(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)

(i) भारते सर्वे भाषा – भाषिणः किं कुर्वन्ति ?
उत्तर:
भारते सर्वे भाषा-भाषिणः एकं राष्ट्रध्वजं नमन्ति एकं च राष्ट्रगानं गायन्ति ।

(ii) अस्मिन् देशे के ऋतवः सन्ति ?
उत्तर:
अस्मिन् देशे वसन्तः, ग्रीष्मः, वर्षा, शरद, हेमन्तः शिशिरः च ऋतवः सन्ति।

(iii) सर्वेजनाः कान् मिलित्वा मानयन्ति ?
उत्तर:
सर्वेजनाः उत्सवान् मिलित्वा मानयन्ति।

(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत ।
उत्तर:
शीर्षकम् लेखनम्-
अस्माकं देशः/भारतवर्षः/भारतदेशः।

(ई) भाषिक कार्यम् – (केवलं प्रश्नत्रयम्)

(i) ‘परम् अनेकतायाम् अपि एकतायाः मधुरा धारा प्रवहति ‘ अत्र ‘मधुरा’ इति कस्य विशेषणपदम् अस्ति ?
(क) भाषा
(ख) धारा
(ग) संस्कृतभाषा
(घ) एकतायाः
उत्तर:
(ख) धारा

(ii) ‘अस्मिन् देशे सर्वे ऋतवः क्रमेण आगच्छन्ति ।’ अत्र ‘ आगच्छन्ति’ इति क्रियापदस्य किं कर्तृपदम् अस्ति ?
(क) अस्मिन्
(ख) देशे
(ग) ऋतवः
(घ) सर्वे
उत्तर:
(ग) ऋतवः

(iii) अनुच्छेदे ‘समानता’ इति पदस्य किं विलोमपदं प्रयुक्तम् ?
(क) भाषा
(ख) विविधता
(ग) निहिता
(घ) अज्ञानता
उत्तर:
(ख) विविधता

(iv) ‘एकतायाः मधुरा धारा प्रवहति’ इत्यत्र किं क्रियापदम् प्रयुक्तम् ?
(क) एकतायाः
(ख) धारा
(ग) प्रवहति
(घ) मधुरा
उत्तर:
(ग) प्रवहति

(खंड ‘ख’)
(रचनात्मकं कार्यम्) [15 अंङ्का:]

2. भवान् अर्णवः। भवता स्वमित्रं सिद्धान्तं प्रति परीक्षायां सफलतायै वर्धापनाम लिखिते पत्रे मञ्जूषातः रिक्तस्थानानि पूरयित्वा उत्तरपुस्तिकायां पत्रं पुनः लिखत । 1/2 × 10 = 5

परीक्षा भवनम्
दिल्लीत:
तिथि : ……..
प्रिय सिद्धान्त !
(i) ……………….
अत्र कुशलं तत्रास्तु। (ii) ………परीक्षायाः सफलतायाः पत्रम् अधुनैव (iii) ………. । भवतः परीक्षापरिणामं ज्ञात्वा अति (iv) …….. अभवत् । अहर्निशं प्रयासं कृत्वा भवान् सप्तनवति प्रतिशतम् (v) ……….. लब्धवान्। त्वं मम परिवारस्य (vi) ……… अर्हसि । पत्रे (vii) ………पुन: वर्धापनं (viii) ……..। (ix) …………. सादरं नमः । भवतः (x) …….
अर्णवः।

मञ्जूषा
संतोषः, पितृभ्याम्, अङ्कान्, भवतः, कामये, साधुवादान्, तुभ्यम्, प्राप्तम्, सप्रेम नमस्ते, मित्रम्
उत्तर:
परीक्षा भवनम्
दिल्लीतः
तिथि : ………….
प्रिय सिद्धान्त !
(i) सप्रेम नमस्ते
अत्र कुशलं तत्रास्तु। (ii) भवत: परीक्षायाः सफलतायाः पत्रम् अधुनैव (iii) प्राप्तम् । भवतः परीक्षापरिणामं ज्ञात्वा अति (iv) संतोष: अभवत्। अहर्निशं प्रयासं कृत्वा भवान् सप्तनवतिः प्रतिशतम् (v) अङ्कान् लब्धवान्। त्वं मम परिवारस्य (vi) साधुवादान् अर्हसि। पत्रे (vii) तुभ्यम् पुनः वर्धापनं (viii) कामये । (ix) पितृभ्यां सादरं नमः । भवतः (x) मित्रम्।
अर्णवः।

3. मञ्जूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्चवाक्यानि संस्कृतेन लिखत । [1 × 5 = 5]CBSE Sample Papers for Class 10 Sanskrit Set 2 with Solutions 1
मञ्जूषा
बालिका, उपवनस्य, खगाः, सूर्य:, खेलतः, कमलानि, वृक्षाः, विकसन्ति, भ्रमति, कन्दुकेन, अपि, सरोवरे, एकः, द्वे वर्तिके
उत्तर:
(i) एतत् चित्रम् उद्यानस्य अस्ति।
(ii) उद्याने बालिकाः बालकाः च क्रीडन्ति ।
(iii) सरोवरे द्वे वर्तिके स्तः ।
(iv) अस्मिन् चित्रे सूर्य : उदेति ।
(v) अत्र कमलानि विकसन्ति ।

अथवा

‘संस्कृतभाषाया महत्त्वं’ इति विषयम् अधिकृत्य पञ्चवाक्यानि लिखत । (सहायतायै पदानि मञ्जूषायाम् दत्तानि सन्ति)

मञ्जूषा
प्राचीनतमा भाषा, सर्वविधभाषाणां जननी, प्राणभूता, सर्वेवेदाः, धर्मग्रन्थाः, सर्वविधसाहित्यम्, सभ्यतायाः संस्कृतेः च संरक्षिका, अस्याम्, भाषायाम्, प्राप्यते, उपलभ्यते, लिखिताः अस्ति, सन्ति ।
उत्तर:
(i) संस्कृत भाषा सर्वासु भाषासु प्राचीनतमा भाषा अस्ति ।
(ii) इयं भाषा सर्वविधभाषाणां जननी अस्ति ।
(iii) सर्वे वेदा: संस्कृतभाषायामपि लिखिताः सन्ति ।
(iv) अस्याम् भाषायां सर्वे धार्मिकग्रन्थाः उपलभ्यन्ते ।
(v) संस्कृतभाषा भारतस्य प्राणभूता अस्ति।

4. हिन्दी भाषया आङ्गलभाषया वा लिखितानां वाक्यानां संस्कृतेन अनुवादः क्रियताम् । (केवलं वाक्यपञ्चकम्) [1 × 5 = 5]

(i) मैं तो नवम कक्षा में पढ़ता हूँ ।
I read in 9th class.
(ii) भारत हमारा देश है।
India is our country.
(iii) अर्जुन कृष्ण के भाई थे।
Arjun was brother of Krishna.
(iv) सीता राम की पत्नी थी।
Sita was wife of Ram.
(v) कवियों में कालिदास श्रेष्ठ हैं।
Kalidas is the best among the poets.
(vi) प्रातःकाल सूर्य उदित होता है।
Sun rises in the morning.
(vii) श्रीरामचन्द्र, महाराज दशरथ के पुत्र थे।
Shri Ram Chandra was the son of king Dashrath.
उत्तर:
(i) अहं तु नवम्यां कक्षायां पठामि ।
(ii) भारतवर्षः अस्माकं देशः अस्ति ।
(iii) अर्जुन : कृष्णस्य भ्राता आसीत् ।
(iv) सीता रामस्य भार्या आसीत् ।
(v) कविषु कालिदासः श्रेष्ठः।
(vi) प्रात:काल सूर्य: उदयति ।
(vii) श्रीरामचन्द्रः, महाराज दशरथस्य पुत्रः आसीत्।

(खंड ‘ग’) [25 अंङ्काः]
(अनुप्रयुक्त व्याकरणम्)

5. अधोलिखितवाक्येषु रेखाङ्कितपदानां समुचितं सन्धिं – सन्धिविच्छेदं वा कृत्वा शुद्धं लिखत (केवलं प्रश्नचतुष्टयम्) [1 × 4 = 4]

(i) घटरचनायाम् + लीनः गायति ।
उत्तर:
घटरचनायां लीनः

(ii) नाहं पापकर्मं करोमि ।
उत्तर:
न + अहम्

(iii) तदहम् अस्मात् कल्पतरोः अभीष्टं साध्यामि।
उत्तर:
तत् + अहम्

(iv) मा कश्चिद् दुःखभाक् + भवेत्।
उत्तर:
दुःखभाग्भवेत्

(v) वृत्ततस्तु हतः हतः ।
उत्तर:
हतोहतः ।

6. उचित शब्दरूपाणि चित्वा रिक्तस्थानानि पूरयत – (केवलं प्रश्नचतुष्टयम्) [1 × 4 = 4]

(i) छात्रा: …….. पश्यन्ति ।
(क) रामा:
(ख) रामः
(ग) रामम्
(घ) रामाय
उत्तर:
(ग) रामम्

(ii) कालिदासस्य ……….प्रसिद्धाः सन्ति ।
(क) उपमाः
(ख) उपमे
(ग) उपमा
(घ) उपमायाः
उत्तर:
(क) उपमा:

(iii) मम पिता एक: …….. अस्ति ।
(क) लिपिकं
(ख) लिपिक:
(ग) लिपिकया
(घ) लिपिकेन
उत्तर:
(ख) लिपिक:

(iv) ……. भार्या सीता अस्ति ।
(क) रामस्य
(ख) रामम्
(ग) रामेण
(घ) रामज्
उत्तर:
(क) रामस्य

(v) अहं ……….. आम्रवृक्षम् आरोपयामि।
(क) वाटिकाम्
(ख) वाटिका
(ग) वाटिकायाम्
(घ) वाटिके
उत्तर:
(ग) वाटिकायाम् ।

7. उचितधातुरूपाणि चित्वा रिक्तस्थानानि पूरयत – (केवलं प्रश्न चतुष्ट्यम्) [1 × 4 = 4]

(i) सारिका पाठम्………
(क) पठन्ति
(ख) पठति
(ग) पठामि
(घ) पठन्ति
उत्तर:
(ख) पठति

(ii) नृप: प्रजाम्……।
(क) सेवते
(ख) सेवेते
(ग) सेवे
(घ) सेवन्ते
उत्तर:
(क) सेवते

(iii) सत्यस्य सर्वदा विजय:……। धैर्येण कार्यम् कुरु।
(क) भविष्यति
(ख) भविष्यामि
(ग) भविष्यसि
(घ) भविष्यथः
उत्तर:
(क) भविष्यति

(iv) यूयं पाठम्…….।
(क) अपठः
(ख) अपठत्
(ग) अपठत
(घ) अपठम्
उत्तर:
(ग) अपठत

(v) अद्य ते रात्रिभोजनं पश्चात् किं ……….।
(क) करिष्यासि
(ख) करिज्यन्ति
(ग) करिज्यति
(घ) करिष्यतः
उत्तर:
(ख) करिष्यन्ति

8. उचितविभक्ति चित्वा रिक्तस्थानानि पूरयत – (केवलं प्रश्न – चतुष्ट्यम्) [1 × 4 = 4]

(i) सुरेश: ……… बिभेति ।
(क) सिंहस्य
(ख) सिंहम्
(ग) सिंहात्
(घ) सिंहेन
उत्तर:
(ग) सिंहात्

(ii) ……….. बहिः मा गच्छ ।
(क) गृहम्
(ख) गृहात्
(ग) गृहस्य
(घ) गृहाणि
उत्तर:
(ख) गृहात्

(iii) ………. परितः पुष्पाणि न सन्ति ।
(क) गृहस्य
(ख) गृहम्
(ग) गृहेण
(घ) गृहात्
उत्तर:
(ख) गृहम्

(iv) …….. अधः जलं भवति ।
(क) भूमेः
(ख) भूमिम्
(ग) भूमौ
(घ) भूम्या
उत्तर:
(क) भूमेः

(v) यः परेभ्यः सर्वमपर्यति तस्मै ……… नमः ।
(क) तरुम्
(ख) तरुणा
(ग) तरवे
(घ) तरो :
उत्तर:
(ग) तरवे

9. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा रिक्तस्थानानि पूरयत – (केवलं प्रश्नत्रयम्) [1 × 3 = 3]

(i) अहं प्रातः ………….. उद्यानं गच्छामि। (भ्रम् + तुमुन्)
(क) भ्रमीतुम्
(ख) भ्रमतुम्
(ग) भ्रमितुम्
(घ) भ्रमणेनु
उत्तर:
(ग) भ्रमितुम्

(ii) छात्र : उद्याने ……….. अधुना पठति । (क्रीड् + क्त्वा )
(क) क्रीडत्वा
(ख) क्रीडत्वा
(ग) क्रीडित्वा
(घ) क्रीत्वा
उत्तर:
(ग) क्रीडित्वा

(iii) छात्रा : गुरुं ………. पाठं पठन्ति । (प्र + नम् + ल्यप्)
(क) प्रनम्य
(ख) प्रणमय
(ग) प्रणम्य
(घ) प्रनम्य
उत्तर:
(ग) प्रणम्य

(iv) बालक: ……….. पादकन्दुकेन खेलति। (धाव् + क्त्वा)
(क) धावत्वा
(ख) धावतवा
(ग) धावित्वा
(घ) धात्वा
उत्तर:
(ग) धावित्वा

10. संख्यावाचिशब्दरूपाणां रिक्त स्थानानि पूरयत। (केवलं प्रश्नचतुष्टयम्) [1/2 × 4 = 2]

(i) तस्मिन्नेव ग्रामे ………….. अपरा लुब्धा वृद्धा न्यवसत् । (एक)
(ii) अये ………. मोदकानि रच्यन्ते । (त्रि)
(iii) ………. एव निर्गतौ। (द्वि)
(iv) ……….. दिवसस्य कार्यं तस्मिन्नेव दिवसे कर्त्तव्यम् । (एक)
(v) षट्कोणे ………… कोणा : भवन्ति । (षट्)
उत्तर:
(i) एका,
(ii) त्रीणि,
(iii) द्वौ
(iv) एकस्य,
(v) षड्

11. रेखाङ्कितपदेषु उपसर्गं पृथक् क्रियताम्। (केवलं प्रश्न चतुष्टयम्) [1/2 × 4 = 2]

(i) हर्षोन्मतबालकाः होलिकां अभिनन्दन्ति।
उत्तर:
अभि

(ii) आम्रेषु नवा : मंजर्य: प्रादुर्भवन्ति
उत्तर:
प्र

(iii) समयत: ते राज्यं परिपातयामि
उत्तर:
परि

(iv) रमा कूपात् जलं आनयति
उत्तर:

(v) वृक्षस्य अधः शिशवः परिभ्रमन्ति
उत्तर:
परि।

12. मञ्जूषायाः पदानि चित्वा रिक्तस्थानानि पूरयत- [1/2 × 4 = 2]

(i) …….. मम मातुलः अमेरिका देशात् आगमिष्यति।
(क) श्वः
(ख) अद्य
(ग) अधुन्य
(घ) अन्धि
उत्तर:
(क) श्वः

(ii) व्यायामं कुर्वत् विरुद्धं ……… परिपच्यते ।
(क) एव
(ख) अपि्
(ग) सर्वत्र
(घ) यदा
उत्तर:
(ख) अपि्

(iii) ………. वारणावते त्वमेव पाण्डवान् रक्षितवान् ?
(क) किम्
(ख) किमर्धम्
(ग) कस्मै
(घ) कस्य
उत्तर:
(घ) किमथम्

(iv) रामः …….. गमिष्यति ?
(क) किमर्थम्
(ख) कुत्रः
(ग) कुत्र
(घ) कदा
उत्तर:
(घ) कदा

(v) यथा राजा ……….. प्रजा ।
(क) तथा
(ख) यदा
(ग) तदा
(घ) तत्र
उत्तर:
(क) तथा ।

(खंड ‘घ’) [30 अंङ्काः]
(पठित-अवबोधनम्)

13. अधोलिखितं गद्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत- [5]

अतएव प्रकृतिरस्माभिः रक्षणीया । तेन च पर्यावरणं रक्षितं भविष्यति । प्राचीनकाले लोकमङ्गलाशंसिन ऋषयो वने निवसन्ति स्म । यतो हि वने सुरक्षितं पर्यावरणमुपलभ्यते स्म । तत्र विविधा: विहगाः कलकूजि श्रोत्ररसायनं ददति ।

सरितो गिरिनिर्झराश्च अमृतस्वादुः निर्मलं जलं प्रयच्छन्ति । वृक्षाः लताश्च फलानि पुष्पाणि इन्धनकाष्ठानि च बाहुल्येन समुपहरन्ति । शीतलमन्दसुगन्धवनपवना औषधकल्पं प्राणवायुं वितरन्ति ।

(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम् )

(i) प्राचीनकाले के ऋषयो वने निवसन्ति स्म ?
(ii) का अस्माभिः रक्षणीया ?
(iii) प्राणवायुं के वितरन्ति ?
उत्तर:
(i) लोकमङ्गलाशंसिनः,
(ii) प्रकृति:,
(iii) वनपवनाः ।

(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम् )

(i) सरितो गिरिनिर्झराश्च कीदृशं जलं प्रयच्छन्ति ?
(ii) वृक्षाः कानि कानि समुपहरन्ति ?
(iii) का: श्रोत्र रसायनं ददति ?
उत्तर:
(i) सरितो गिरिनिर्झराश्च अमृतस्वादुः निर्मलं जलं प्रयच्छन्ति ।
(ii) वृक्षाः फलानि पुष्पाणि इन्धनकाष्ठानि च बाहुल्येन समुपहरन्ति ।
(iii) विहगाः कलकूजि श्रोतरसायनं ददति ।

(इ) भाषिक कार्यम् – (केवलं प्रश्नद्वयम् )

(i) ‘तेन पर्यावरणं रक्षितं भविष्यति’ अत्र किं क्रियापदं प्रयुक्तम् ?
(ii) ‘सरितोगिरिनिर्झराश्च अमृत स्वादुः निर्मलं जलं प्रयच्छन्ति’ अत्र किं विशेषण पदं प्रयुक्तम् ?
(iii) ‘भक्षिंतम्’ इत्यस्य पदस्य अत्र किं विलोमपदं प्रयुक्तम् ?
उत्तर:
(i) भविष्यति
(ii) निर्मलम्
(iii) सुरक्षितम्

14. अधोलिखितं पद्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत- [5]

ललित-पल्लवे पादपे पुष्पपुञ्जे
मलयमारुतोच्चुम्बिते मञ्जुकुञ्जे
स्वनन्तीन्ततिम्प्रेक्ष्य मलिनामलीनाम् ।

प्रश्ना:
(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) [1/2 × 2 = 1]

(i) भ्रमराः कुत्र स्वनन्ति ?
(ii) पल्लवाः कीदृशं सन्ति ?
(iii) मलययुक्तं किम् अस्ति ?
उत्तर:
(i) पुष्पपुञ्जे,
(ii) ललित-मनोहरम्,
(iii) मारुतः।

(आ) पूर्ण वाक्येन उत्तरत – (केवलं प्रश्नद्वयम् )

(i) अलीनाम् वर्णः कः अस्ति ?
(ii) के पादपे पुष्पपुञ्जे गुञ्जन्ति ?
(iii) कवि: मञ्जुकुञ्जे किं ददर्श ?
उत्तर:
(i) अलीनां वर्णः कृष्णवर्णः अस्ति।
(ii) भ्रमराः पादपे पुष्प पुजे गुञ्जन्ति ।
(iii) कवि : मञ्जुकुञ्जे स्वनन्ती अलीनां ततिं ददर्श ।

(इ) भाषिक कार्यम् – (केवलं प्रश्नद्वयम् )

(i) ‘शोभनलता विताने’ इत्यर्थे कः पर्यायः प्रयुक्तः ?
(ii) ‘ललित-पल्लवे पादपे पुष्पपुञ्जे’ अत्र वाक्ये किम् विशेषण पदं प्रयुक्तम् ?
(iii) ‘पवनः’ इत्यस्य पदस्य अत्र किं पर्याय: प्रयुक्तः ?
उत्तर:
(i) मञ्जुकुञ्जे
(ii) ललित
(iii) मारुत:

15. अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत-

कुम्भकारः (घटरचनायां लीनः गायति )
ज्ञात्वाऽपि जीविकाहेतोः रचयामि घटानहम्।
जीवनं भङ्गुरं सर्वं यथैष मृत्तिकाघटः ॥

चन्दनः – नमस्करोमि तात ! पञ्चदश घटान् इच्छामि । किं दास्यासि ?
देवेश: – कथं न? विक्रयणाय एव एते । गृहाण घटान् । पञ्चशतोत्तर – रूप्यकाणि च देहि ।
चन्दनः – साधु। परं मूल्यं तु दुग्धं विक्रीय एव दातुं शक्यते ।
देवेशः – क्षम्यतां पुत्र ! मूल्यं विना तु एकमपि घटं न दास्यामि ।
मल्लिका – (स्वाभूषणं दातुमिच्छति) तात ! यदि अधुनैव मूल्यम् आवश्यकं तर्हि, गृहाण एतत् आभूषणम् ।
देवेशः – पुत्रिके! नाहं पापकर्मं करोमि । कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम् । नयतु यथाभिलषितान् घटान् । दुग्धं विक्रीय एव घटमूल्यं ददातु।
उभौ – धन्योऽसि तात ! धन्योऽसि ।

प्रश्ना:

प्रतिदर्श प्रश्न-पत्र [1/2 × 2 = 2]

(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम् )

(i) घटरचनायां लीनः कः गायति ?
(ii) चन्दनः कियत् घटान् इच्छति ?
(iii) का स्वाभूषणं दातुमिच्छति ?
उत्तर:
(i) कुम्भकारः
(ii) पञ्चदश
(iii) मल्लिका।

(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्)

(i) कुम्भकारस्य घटाः किमर्थम् आसन् ?
(ii) मूल्यं कदा दातुं शक्यते ?
(iii) पञ्चदशघटान् मूल्यं कियत् आसीत् ?
उत्तर:
(i) कुम्भकारस्य घटाः विक्रयणाय एव आसन् ।
(ii) मूल्यं दुग्धं विक्रीय एव दातुं शक्यते ।
(iii) पञ्चदश घटान् मूल्यं पञ्चशतोत्तर- रुप्यकाणि आसीत्।

(इ) भाषिक कार्यम् – (केवलं प्रश्नद्वयम् ) [1 × 2 = 1]

(i) ‘पञ्चदश घटान् इच्छामि’ इति वाक्ये किं विशेष्यपदं प्रयुक्तम् ?
(ii) ‘मूल्यं विनातुएकमपि घटं न दास्यामि’ अत्र किं क्रियापदं प्रयुक्तम् ?
(iii) ‘नाहं पापकर्मं करोमि ‘ अत्र किं कर्तृपदं प्रयुक्तम् ?
उत्तर:
(i) घटान्
(ii) दास्यामि
(iii) अहम्।

16. स्थूलपदमाधृत्य प्रश्ननिर्माणं कृत्वा पुनः लिखत् – (केवलं प्रश्नचतुष्टयम्) [1 × 4 = 4]

(i) नद्या : जलं समुद्रमासाद्य अपेयं भवति ।
(ii) मल्लिका सखीभिः सह धर्मयात्रायै गच्छति स्म ।
(iii) ईर्ष्यया सा तस्य स्वर्णकाकस्य रहस्यमभिज्ञातवती ।
(iv) वृत्तं यत्नेन संरक्षयेद् ।
(v) ग्रामात् बहिः पिप्पलवृक्षः आसीत् ।
उत्तर:
(i) नद्या : जलं कुत्र अपेयं भवति ?
(ii) मल्लिका काभिः सह धर्मयात्रायै गच्छति स्म ?
(iii) कया सा तस्य स्वर्णकाकस्य रहस्यमभिज्ञातवती ?
(iv) वृत्तं केन संरक्षयेद् ?
(v) कस्मात् बहिः पिप्पलवृक्षः आसीत् ?

17. अधोलिखितस्य श्लोकस्य अन्वये रिक्तस्थानपूर्तिं क्रियताम्-

ततोऽस्य सशरं चापं मुक्तामणिविभूषितम् । [1 × 3 = 3]चरणाभ्यां महातेजा बभञ्जास्य महद्धनुः ।।
तत: (i) ……… मुक्तामणिविभूषितम् (ii) ………. चापं अस्य (iii) ………. महातेजा चरणाभ्यां बञ्भज ।

मञ्जूषा- अस्य, महद्धनुः, सशरम् ।
उत्तर:

अथवा

अधोलिखितस्य श्लोकस्य भावार्थे रिक्तस्थानपूर्तिं कृत्वा पुनः लिखत- [1 × 3 = 3]

ललित-पल्लवे पादपे पुष्पपुञ्जे
मलयमारुतोच्चुम्बिते मञ्जुकुञ्जे,
स्वन्तीन्ततिम्प्रेक्ष्य मलिनामलीनाम् ।

भावार्थ:- प्रस्तुत श्लोकस्य भावः इदम् अस्ति यत् मलयानिल संस्पृष्टे (i) …….. वृक्षः पुष्पसमूहानां (ii) ……… कृष्ण भ्रमराणाम् ध्वनिं कुर्वतीम् (iii) ……… प्रेक्ष्य हे वीणावादिनी । त्वम् नवीनां मधुरं च गीतं गाय, सहैव नवीनां वीणायाः वादनं कुरु ।

मञ्जूषा- मनोहर पल्लवे, ततिम्, शोभनलता विताने
उत्तर:
तत: (i) अस्य मुक्तामणिविभूषितम् (ii) सशरं चापं अस्य (iii) महद्धनुः महातेजा चरणाभ्यां बञ्भज ।

अथवा

भावार्थ:-
अस्य श्लोकस्य भावः इदम् अस्ति यत् मलयनिलसंस्पृष्टे (i) मनोहर पल्लवे । वृक्षाः पुष्पसमूहानां (ii) शोभनलता विताने कृष्णभ्रमराणां ध्वनिं कुर्वतीम् (iii) ततिं प्रेक्ष्य हे वीणावादिनी ! त्वं नवीनां मधुरं च गीतं गाय, सहैव नवीनां वीणाया: वादनं कुरु ।

18. घटनाक्रमानुसार लिखत्- [1/2 × 8 = 4]

(i) स्वर्णसोपानेन सा स्वर्ण-भवनमा आरोहन् ।
(ii) ताम्र स्थाल्यां एव अहं निर्धना भोजनं करिष्यामि ।
(iii) गर्वितया बालिकया प्रोक्तं स्वर्णमयेन सोपानेन अहम् आगच्छामि।
(iv) पुरा कस्मिश्चिद् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत् ।
(v) लुब्धया बलिकाया लोभस्य फलं प्राप्तम्।
(vi) न एतादृश स्वादु भोजनम् अद्यावधि बालिका खादितवति ।
(vii) तस्यां महार्हाणि हीरकाणि विलोक्य सा प्रहर्षिता ।
(viii) नैतादृश: स्वर्णपक्षः रजतञ्चुः स्वर्णकाकस्तया पूर्वं दृष्टः ।
उत्तर:
(i) पुरा कस्मिंश्चिद् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत् ।
(ii) नैतादृश: स्वर्णपक्षः रजतचञ्चुः स्वर्णकाकस्तयापूर्व दृष्टः।
(iii) गर्वितया बालिकया प्रोक्तं स्वर्णमयेन सोपानेन अहम् आगच्छामि ।
(iv) स्वर्णसोपानेन सा स्वर्ण-भवनमाससाद।
(v) तस्यां महार्हाणि हीरकाणि विलोक्य सा प्राहर्षिता ।
(vi) ‘ताम्रस्थाल्यां एव अहं निर्धना भोजनं करिष्यामि।
(vii) नैतादृक् स्वादुभोजनम् अद्यावधि बालिका खादितवती।
(viii) लुब्धया बालिकाया लोभस्य फलं प्राप्तम्।

19. (क) प्रसङ्गानुकूलम् उचितार्थ लिखत- (केवलं प्रश्नचतुष्टयम्) [1/2 × 4 = 2]

(i) बाल्ये पितृ चरणैः क्लेश्यमानोऽपि विद्यां नाऽधीतवान् ।
(ii) अहं गर्हितोऽ भवम्।
(iii) अशितस्य अत्रस्य योऽणिष्ठः तन्मनः ।
(iv) अहम् प्रष्टुम् इच्छामि ।
(v) कश्चन बाल: क्रीडितुम् अगच्छत् ।

मञ्जूषा
खेलितुम्, तातपादैः, भक्षितस्य, निन्दितः, प्रश्नंकर्तुम्
उत्तर:
(i) तातपादै:
(ii) निन्दितः
(iii) वस्त्रैः
(iv) प्रश्नंकर्तुम्
(v) खेलितुम् ।

(ख) अधोलिखितानां शब्दानाम् अर्थैः सह मेलनं कुरुत – (केवलं प्रश्नचतुष्टयम्) [1/2 × 4 = 2]

(i) महार्हाणि – गृह्णन्तम्
(ii) आदानम् – आचरणम्
(iii) जलप्लावनैः – गर्भे
(iv) कुक्षौ – जलौधैः
(v) वृत्तम् – गृह्णन्तम्
उत्तर:
(i) महार्हाणि – बहुमूल्यानि
(ii) आददानम् – गृह्णन्तम्
(iii) जलप्लावनैः – जलौधैः
(iv) कुक्षौ – गर्भे
(v) वृत्तम् – आचरणम्


Show More

Related Articles

यौगिक किसे कहते हैं? परिभाषा, प्रकार और विशेषताएं | Yogik Kise Kahate Hain Circuit Breaker Kya Hai Ohm ka Niyam Power Factor Kya hai Basic Electrical in Hindi Interview Questions In Hindi