Article

CBSE Sample Papers for Class 9 Sanskrit Set 1 with Solutions

Students must start practicing the questions from CBSE Sample Papers for Class 9 Sanskrit with Solutions Set 1 are designed as per the revised syllabus.

CBSE Sample Papers for Class 9 Sanskrit Set 1 with Solutions

समय: 3 होराः
पूर्णांक: 80

सामान्यनिर्देशाः

  • कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 11 पृष्ठानि मुद्रितानि सन्ति ।
  • कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 19 प्रश्नाः सन्ति ।
  • अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः सन्ति ।
    ‘क’ खण्ड: : अपठितावबोधनम् 10 अङ्काः
    ‘ख’ खण्डः : रचनात्मककार्यम् 15 अङ्काः
    ‘ग’ खण्डः : अनुप्रयुक्तव्याकरणम् 25 अङ्काः
    ‘घ’ खण्डः : पठितावबोधनम् 30 अङ्काः
  • प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि ।
  • उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः ।
  • प्रश्नस्य क्रमाङ्कः प्रश्नपत्रानुसारम् एव लेखनीयः ।
  • सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।
  • प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।

(खंड ‘क’)
(अपठित अवबोधनम्) (10 अंङ्का:)

1. अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत । [10]

एकदा राजकुमारः सिद्धार्थः विहारार्थम् उपवनं गतः । सहसा एकं क्रन्दनध्वनिं श्रुत्वा सः इतस्ततः अपश्यत् । बाणेन विद्धः एकः हंसः भूमौ पतितः। एतत् दृष्ट्वा सिद्धार्थस्य चित्तं करुणया व्याकुलं जातम्। सः धावित्वा हंसस्य शरीरात् बाणं निष्कास्य तम् अङ्के अधारयत्। अत्रान्तरे देवदत्तः धावन् तत्र प्राप्तः । सिद्धार्थस्य हस्ते हंस दृष्ट्वा सः उच्चैः अवदत् -“सिद्धार्थ ! एषः मम हंसः । मया बाणेन निपातितः। अतः मह्यम् देहि।” सिद्धार्थः : दृढतया अवदत् -“अहं न दास्यामि। अहम् अस्य रक्षकः अस्मि ।” राजा सर्वंवृत्तान्तं आकर्ण्य आदिशत् –“यस्य पार्श्वे हंसः स्वयमेव आगमिष्यति सः तस्यैव भविष्यति। हंसः सिद्धार्थस्य समीपं गतवान्। सत्यमिदम् यत् भक्षकात् रक्षकः श्रेयान् भवति।

प्रश्ना:

(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) [1 × 2 = 2]

(i) कः भूमौ पतितः आसीत् ?
उत्तर:
हंस:

(ii) हंसः कस्य समीपं गतवान् ?
उत्तर:
सिद्धार्थस्य

(iii) सिद्धार्थः किमर्थम् उपवनं गतः ?
उत्तर:
विहारार्थम्।

(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) [2 × 2 = 4]

(i) देवदत्तः सिद्धार्थम् उच्चैः किम् अवदत् ?
उत्तर:
देवदत्तः सिद्धार्थम् उच्चैः अवदत् –“सिद्धार्थ ! एषः मम हंसः । मया बाणेन निपातितः। अतः मह्यम् देहि।”

(ii) राजा सर्वंवृत्तान्तम् आकर्ण्य किम् आदिशत् ?
उत्तर:
राजा आदिशत् -“यस्य पार्श्वे हंसः स्वयमेव आगमिष्यति सः तस्यैव भविष्यति।”

(iii) क: हंसम् अङ्के अधारयत् ?
उत्तर:
सिद्धार्थः हंसम् अङ्के अधारयत्।

(इ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत । [1 × 1 = 1]उत्तर:
राजकुमारः सिद्धार्दः

(ई) भाषिक कार्यम् – (केवलं प्रश्नत्रयम्) [1 × 3 = 3]

(i) ‘चित्तम्’ इति पदस्य अनुच्छेदे विशेषणपदं किं प्रयुक्तम् ?
(क) करुणया
(ख) सिद्धार्थस्य
(ग) व्याकुलं
(घ) हंसः
उत्तर:
(क) करुणया

(ii) ‘देहात्’ अस्य पदस्य समानार्थकं पदं लिखत ।
(क) निपातित:
(ख) शरीरात्
(ग) पतितः
(घ) समीपं
उत्तर:
(ख) शरीरात्

(iii) ‘राजकुमार: विहारार्थम् उपवनं गतः’ इत्यस्मिन् वाक्ये किं क्रियापदं प्रयुक्तम्
(क) गत:
(ख) उपवनम्
(ग) राजकुमार:
(घ) विहारार्थं
उत्तर:
(क) गतः

(iv) ‘हंसः स्वयमेव आगमिष्यति’ इत्यत्र किं कर्तृपदम् प्रयुक्तम् ?
(क) स्वयमेव
(ख) हंसः
(ग) आगमिष्यति
(घ) एव
उत्तर:
(ख) हंसः ।

(खंड ‘ख’)
(रचनात्मकं कार्यम्) [15 अंङ्का:]

2. भवतां नाम लोकेशः । भवतः मित्रं सुरेशः चण्डीगढ़-नगरे नवोदय विद्यालयस्य छात्रावासे वसति । सः अस्वस्थः अस्ति । स्वास्थ्यरक्षणाय तं प्रति लिखिते पत्रे रिक्तस्थानानि मञ्जूषायाः सहायतया पूरयित्वा पुनः लिखत । [1/2 × 10 = 5]

दिल्लीतः
दिनाङ्के………..
प्रियमित्र सुरेश !
सप्रेम नमस्ते।
भवतः पत्रात् मया ज्ञातम् यत् त्वं (i) ………… अस्वस्थः असि। अहं (ii) …….. सह तव विषये चर्चाम् अकरवम् । मम पितृमहोदय: (iii) ……. अस्ति। तेन स्वास्थ्यरक्षणाय ये निर्देशाः दत्ताः तान् अहं (iv) ………… प्रतिदिनं भ्रमणम् (v) ……….. च कुरु। यावत् (vi) ………. अनुभूतिः न भवेत्, भोजनं न कर्त्तव्यम् । भोजनेन सह जलं न (vii) ………| प्रतिदिनं (viii) ……….. जलं पातव्यम्। अन्यत् सर्वम् कुशलम् । समये-समये (ix) ……….. त्वया अवश्यं सूचनीयम् ।
(x) ……….. प्रियः सुहृद,
लोकेशः

मञ्जूषा
स्वस्वास्थ्यविषये, क्षुधायाः, त्वदीयः, व्यायामं, पर्याप्तम्, गतसप्ताहात्, स्वपित्रा, प्राकृतिकचिकित्सकः, लिखामि, पातव्यम्
उत्तर:
पत्रलेखनम्-
दिल्लीतः
दिनाङ्क……..
प्रियमित्र सुरेश !
सप्रेम नमस्ते ।
भवतः पत्रात् मया ज्ञातम् यत् त्वं (i) गतसप्ताहात् अस्वस्थ : असि । अहं (ii) स्वपित्रा सह तव विषये चर्चाम् अकरवम्। मम पितृमहोदयः (iii) प्राकृतिक-चिकित्सकः अस्ति । तेन स्वास्थ्यरक्षणाय ये निर्देशाः दत्ताः तान् अहं (iv) लिखामि । प्रतिदिनं भ्रमणम् (v) व्यायामं च कुरु । यावत् (vi) क्षुधायाः अनुभूति : न भवेत्, भोजनं न कर्त्तव्यम् । भोजनेन सह जलं न (vii) पातव्यम्। प्रतिदिनं (viii) पर्याप्तं जलं पातव्यम्। अन्यत् सर्वम् कुशलम्। समये – समये (ix) स्वस्वास्थ्यविषये त्वया अवश्यं सूचनीयम्।
(x) त्वदीयः प्रियः सुहृद,
लोकेशः

3. चित्रं दृष्ट्वा प्रदत्तानां शब्दानां सहायतया चित्रस्य वर्णनम् पञ्च संस्कृतवाक्येषु कुरुत [1 × 5 = 5]

मञ्जूषा
प्रशिक्षण-शालायाः, शिक्षिका, प्रशिक्षणम्, अधिगच्छति, करण्डकानि, चित्रं, निर्मापयन्ति, उपनेत्रम्, लघुद्योगस्य, महत्त्वम् ।
उत्तर:
अत्र छात्रेभ्यः संक्षिप्त वाक्य रचना अपेक्षिता वर्तते। केवलं वाक्यशुद्धिः दृष्टव्या । अस्य प्रश्नस्य प्रमुखम् उद्देश्यं वाक्य रचना अस्ति। वाक्यं दीर्घम् अस्ति अथवा लघु इति महत्वपूर्ण नास्ति । प्रतिवाक्यम् अर्धः अङ्कः भावस्य कृते अर्धः अङ्कः च व्याकरणदृष्टव्या शुद्धतानिमित्तं निर्धारितः अस्ति। मञ्जूषायां प्रदत्ता: शब्दा: सहायतार्थं सन्ति। छात्रः तेषां वाक्येष प्रयोगं कुर्यांदेव इति अनिवार्यं नास्ति। छात्रः स्वमेधया अपि वाक्यानि निर्मातुं शक्नोति । मञ्जूषायां प्रदत्तानां विभक्तिं परिवर्तनं कृत्वा अपि वाक्य निर्माणं कर्तुम् शक्यते ।

(i) इदम् एकस्या: प्रशिक्षणशालयाः चित्रम् अस्ति ।
(ii) एका प्रशिक्षिका प्रशिक्षणं यच्छति ।
(iii) चतस्रः महिला: प्रशिक्षणं ग्रह्णान्ति ।
(iv) तिस्र: महिला : करण्डकानि निर्मापयन्ति ।
(v) एका महिला उपनेत्रम् धारयति ।

अथवा

‘रक्षाबन्धनपर्व’ इति विषयम् अधिकृत्य मञ्जूषापदसाहाय्येन संस्कृतभाषायां पञ्चवाक्यानि लिखत।

मञ्जूषा
भ्रातुः, भगिनी, राखीबन्धनम्, करोति, आशीर्वादम्, उपहारम्, धनम्, प्रमुदितमनः, सर्वे, देशे, भारतेदेशे ।
उत्तर:
अनुच्छेद लेखनम्-

अयं विकल्पः सर्वेभ्यः अस्ति । छात्राः मञ्जूषायां प्रदत्तानां शब्दानां विभक्तिं परिवर्तनं कृत्वा अपि वाक्य निर्माणं कर्तुम् शक्नुवन्ति । अतः अङ्काः देयाः। अस्य मूल्याङ्कनाम अन्ये नियमाः चित्रवर्णनस्य अनुगुणम् पालनीयाः ।
(i) भारते रक्षाबन्धनम् उत्साहेन मान्यते।
(ii) प्रातः एव भगिनी स्व भ्रातुः रक्षा वा सूत्रं बध्नाति ।
(iii) भ्राता प्रमुदितमनः भूत्वा भगिन्यै उपहारं यच्छति ।
(iv) इदं पर्वं सम्पूर्णे देशे श्रद्धया मान्यते ।
(v) भ्राता : भगिन्यै आशीर्वादं ददाति ।

4. हिन्दी भाषया आङ्गलभाषया वा लिखितानां वाक्यानां संस्कृतेन अनुवादः क्रियताम्। (केवलं प्रश्नपञ्चवाक्यम्) [1 × 5 = 5]

(i) विद्या विनय देती है।
Knowledge makes humble.
(ii) बूढ़े और बच्चे सभी मेला देखकर खुश होते हैं।
All the old and the young enjoy the fair.
(iii) तोता हरे रंग का होता है।
The parrot is green.
(iv) पुस्तकों के पढ़ने से ज्ञान बढ़ता है।
Study enhances knowledge.
(v) माता – पिता की सेवा मानव का धर्म है।
It is man’s duty to serve his parents.
(vi) राम अयोध्या से वन को गए।
Ram went to forest from Ayodhya.
(vii) गंगा हिमालय से निकलती है।
The Ganga originates from the Himalayas.
उत्तर:
(i) विद्या विनयं ददाति ।
(ii) वृद्धाः बालाः च सर्वे एव मेलापकं दृष्ट्वा प्रसन्नाः भवन्ति।
(iii) शुकः हरितस्य वर्णस्य भवति ।
(iv) पुस्तकानां पठनात् ज्ञानं वर्धयति ।
(v) मातापित्रोः सेवा मानवस्य धर्मं अस्ति ।
(vi) रामः अयोध्यायाः वनम् अगच्छत्।
(vii) गंगा हिमालयात् निर्गच्छति ।

(खंड ‘ग’) [25 अंङ्काः]
(अनुप्रयुक्त व्याकरणम्)

5. अधोलिखित रेखाङ्कितपदानां समुचितं सन्धिं सन्धिविच्छेदं वा कृत्वा शुद्धं लिखत – (केवलं प्रश्नचतुष्टयम्)

(i) वयं श्लोकस्य अन्वयं लिखामः
उत्तर:
अनु + अयम्

(ii) नान्तं समधिगच्छति ।
उत्तर:
न + अन्तम्

(iii) सः बालो भग्नमनोरथः सन् ।
उत्तर:
बालः + भग्नमनोरथः

(iv) अथ स्वोचितम् अहमपि करोमि ।
उत्तर:
स्व + उचितम्

(v) देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।
उत्तर:
गन्तुम् + इच्छन्।

6. प्रदत्त विकल्पेभ्यः उचितशब्दरूपाणि चित्वा रिक्तस्थानानि पूरयत – (केवलं प्रश्नचतुष्टयम्) [1 × 4 = 4]

(i) …….. नमः।
(क) विष्णु
(ख) विष्णुम्
(ग) विष्णवे
(घ) विष्णोः
उत्तर:
(ग) विष्णवे

(ii) कालिदासस्य …….. प्रसिद्धाः सन्ति ।
(क) सूक्ति:
(ख) सूक्ते:
(ग) सूक्तयः
(घ) सूक्तानि
उत्तर:
(ग) सूक्तयः

(iii) …… विद्यालयं गच्छ।
(क) युवाम्
(ख) त्वम्
(ग) यूयम्
(घ) आवाम्
उत्तर:
(ख) त्वम्

(iv) ……. यात्रा तु सम्यक् सफला जाता।
(क) तव
(ख) तस्य
(ग) मम
(घ) मया
उत्तर:
(क) तव

(v) ग्रामप्रमुखस्य गृहे …….. मासान्ते भविष्यति ।
(क) महोत्सवाः
(ख) महोत्सवः
(ग) महोत्सवेन
(घ) महोत्सवं
उत्तर:
(ख) महोत्सवः ।

7. प्रदत्त विकल्पेभ्यः उचित धातु रूपाणि चित्वा रिक्त स्थानानि पूरयत – (केवलं प्रश्नचतुष्ट्यम्) [1 × 4 = 40]

(i) श्वः अहं नाटके सैनिक :
(क) भविष्यति
(ख) भविष्यसि
(ग) भविष्यामि
(घ) भविष्यथः
उत्तर:
(ग) भविष्यामि

(ii) ते गुरुम्…….!
(क) सेवे
(ख) सेवते
(ग) सेवन्ते
(घ) सेवोनहे
उत्तर:
(ग) सेवन्ते

(iii) सारिका पाठम्……!
(क) पठन्ति
(ख) पठति
(ग) पठामि
(घ) पाष्यति ।
उत्तर:
(ख) पठति

(iv) सत्यस्य सर्वदा विजय: ……..। धैर्येण कार्यम् कुरु।
(क) भविष्यति
(ख) भविष्यामि
(ग) भविष्यसि
(घ) भविष्यावः ।
उत्तर:
(क) भविष्यति

(v) एषा समस्या सुरसामुखम् इव प्रतिदिनं वृद्धिम् …..|
(क) धारयति
(ख) प्राप्रोति
(ग) आप्रोति
(घ) भविष्यति
उत्तर:
(ग) आजोति ।

8. अधः प्रदत्तशब्दयोः उचितं विभक्तिंप्रयोगेण वाक्यं पूरयत – (केवलं प्रश्नचतुष्टयम्) [1 × 4 = 4]

(i) सः तु ……….. अपि बिभेति ।
(क) कुक्कुरेण
(ख) कुक्कुरात्
(ग) कुक्कुरस्य
(घ) कुक्कुरं
उत्तर:
(ख) कुक्कुरात्

(ii) वने…………. पुरतः सहसा व्याघ्रः आगच्छत्।
(क) बालकान्
(ख) बालकानाम्
(ग) बालकैः
(घ) बालकेन
उत्तर:
(ख) बालकानाम्

(iii) छात्रा: ……… परितः क्रीडन्ति ।
(क) वृक्षात्
(ख) वृक्षान्
(ग) वृक्षाणाम्
(घ) वृक्षेभ्यः
उत्तर:
(ख) वृक्षान्

(iv) पशव: …….. सह चरन्ति ।
(क) पशुभिः
(ख) पशवः
(ग) पशुभ्यः
(घ) पशून्
उत्तर:
(क) पशुभिः

(v) ……. भीता: मृगाः इतस्ततः धावन्ति ।
(क) सिंहम्
(ख) सिंहात्
(ग) सिंहस्य
(घ) सिंहेन
उत्तर:
(ख) सिंहात्।

9. प्रदत्त विकल्पेभ्यः उचितम् उत्तरंचित्वा रिक्तस्थानानि पूरयत । (केवलं प्रश्नत्रयम्) [1 × 3 = 3]

(i) विद्यालयं ……. गम् + तुमुन् छात्रः तत्परः अस्ति ।
(क) गमितुम्
(ख) गन्तुम्
(ग) गनतुम्
(घ) गतवान्
उत्तर:
(ख) गन्तुम्

(ii) श्वेता पठित्वा ……… गच्छति ।
(क) पठ + क्त्वा
(ख) पठ् + क्त्वा
(ग) प + ठित्वा
(घ) पठ् + त्वा
उत्तर:
(ख) पठ् + क्त्वा

(iii) परोपकारं कृ + क्त्वा नरः पुण्यं लभते।
(क) कत्वा
(ख) कृक्त्वा
(ग) कृत्वा
(घ) कर्तव्या
उत्तर:
(ग) कृत्वा

(iv) गोपालः विद्यालयात् आगत्य गृहकार्यं करोति ।
(क) आ + गम् + त्य
(ख) आ + गम् + ल्यप्
(ग) आ + गम् + क्त
(घ) आ + गत् + य
उत्तर:
(ख) आ + गम् + ल्यप्

10. संख्यावाचि शब्द रूपाणाम् उचितं रूपं चित्वा रिक्त स्थानानि पूरयत। (केवलं प्रश्नचतुष्टयम्) [1/2 × 4 = 2]

(i) …………. नद्याम् मकराः मीनाः च वसन्ति स्म । (एक)
उत्तर:
एकस्याम्

(ii) ………. महिला: पत्रिकाः पठन्ति । (चतुर्)
उत्तर:
चतस्र:

(iii) …….. कन्या प्रतिदिनं विद्यालयं गच्छति । (एक)
उत्तर:
एका

(iv) अहम् तुभ्यम् …….. निमन्त्रणपत्रं दास्यामि । (एक)
उत्तर:
एक

(v) पित्रा सह ………. बालिकाः आपणम् अगच्छत्। (त्रि)
उत्तर:
तिस्त्रः ।

11. रेखाङ्कितपदेषु उपसर्गं पृथक् क्रियताम्। (केवलं प्रश्न चतुष्टयम्) [1/2 × 4 = 2]

(i) कृषक: ग्रामे निवसति
उत्तर:
नि

(ii) कृषकाः विविधासु कलासु प्रशिक्षिताः भवेयुः ।
उत्तर:
प्र

(iii) कृषकः परिश्रमेण अन्नम् उत्पादयति
उत्तर:
उत्

(iv) स: ईश्वरस्य उपवदति
उत्तर:
उप

(v) राम : श्यामं संवदति
उत्तर:
सम् ।

12. मञ्जूषायाः उचितम् अव्ययपदं चित्वा वाक्येषु रिक्त स्थानानि पूरयत – (केवलं प्रश्नचतुष्टयम्) (1/2 × 4 = 2)

(i) यत्र साधना ……….. सिद्धिः ।
(क) अज
(ख) तत्र
(ग) सर्वज
(घ) तदा
उत्तर:
(ख) तत्र

(ii) सः ……. विद्यालयं अगच्छत्।
(क) श्वः
(ख) ह्यः
(ग) एव
(घ) सपि
उत्तर:
(घ) अपि

(iii) तव कार्यालये ……… अवकाशः न भविष्यति
(क) ह्यः
(ख) अधुन्द
(ग) एव
(घ) श्वः
उत्तर:
(घ) श्वः

(iv) ………. मम गृहे लखनऊतः बान्धवः अपि आगच्छन्।
(क) श्वः
(ख) तज
(ग) ह्यः
(घ) एव
उत्तर:
(ग) य:

(v) ……….. पठनाय गच्छ ।
(क) सम्प्रति
(ख) मधुता
(ग) एव
(घ) तदा
उत्तर:
(ख) अधुना ।

(खंड ‘घ’) [30 अंङ्काः]
(पठित-अवबोधनम्)

13. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत-

चिरकालं भवने चित्रविचित्र वस्तूनि सज्जितानि दृष्ट्वा सा विस्मयं गता । श्रान्तां तां विलोक्य काकः प्राह- पूर्वं लघुप्रातराशः क्रियताम्-वद त्वं स्वर्णस्थाल्यां भोजनं करिष्यसि किं वा रजतस्थाल्याम् ताम्रस्थाल्याम् ? बालिका व्याजहार – ताम्रस्थाल्याम् एव अहं निर्धना भोजनं करिष्यामि । तदा सा कन्या आश्चर्यचकिता सञ्जाता यदा स्वर्णकाकेन स्वर्णस्थाल्यां भोजनं परिवेषितम् । नैतादृक् स्वादु भोजनमद्यावधि बालिका खादितवती । काकोऽवदत्- बालिके ! अहमिच्छामि यत्त्वं सर्वदा अत्रैव तिष्ठ परं तव माता तु एकाकिनी वर्तते । अतः त्वं शीघ्रमेव स्वगृहं गच्छ ।

प्रश्ना:

(अ) एकपदेन उत्तरत् – (केवलं प्रश्नद्वयम्) [1/2 × 2 = 1]

(i) कः प्राह-पूर्वं लघुप्रातराश: क्रियताम् ?
(ii) कानि दृष्ट्वा सा विस्मयं गता ?
(iii) कस्याः माता एकाकिनी वर्तते ?
उत्तर:
(i) काकः,
(ii) चित्रविचित्र वस्तूनि,
(iii) बालिकायाः

(आ) पूर्णवाक्येन उत्तरत् – (केवलं प्रश्नद्वयम् )

(i) सा ताम्रस्थाल्याः चयनाय किं तर्कं ददाति ?
(ii) कीदृशं भोजनं बालिका न खादितवती ? [1 × 2 = 2](iii) ‘शीघ्रमेव स्वगृहं गच्छ’ इति कः कथयति ?
उत्तर:
(i) सा वंदति यत् अहम् निर्धना ताम्रस्थाल्यामेव भोजनं करिष्यामि ।
(ii) स्वादु भोजनमद्यावधि बालिका न खादितवती ।
(iii) काकः कथयति यत् त्वं शीघ्रं स्वगृहं गच्छ।

(इ) भाषिक कार्यम् – (केवलं प्रश्नद्वयम्)

(i) ‘अकथयत्’ इत्यर्थे कः पर्यायः प्रयुक्तः ?
(ii) ‘ श्रान्तां तां विलोक्य काक: प्राह- पूर्वं लघुप्रातराशः क्रियताम्’ अत्र किं क्रियापदं प्रयुक्तं ?
(iii) ‘सा विस्मयं गता ‘ अत्र किं कर्तृपदं प्रयुक्तं ?
उत्तर:
(i) व्याजहार
(ii) क्रियताम्
(iii) सा

14. अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत- [5]वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः॥

प्रश्ना: [1/2 × 2 = 2]

(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) [1/2 × 2 = 1]

(i) यत्नेन किं रक्षेत् वित्तं वृत्तं वा ?
(ii) कस्मात् क्षीणः अक्षीणः भवति ?
(iii) किम् एति याति च ?
उत्तर:
(i) वृत्तम्,
(ii) वित्ततः,
(iii) वित्तम् ।

(आ) पूर्णवाक्येन उत्तरत – (केवलं प्रश्नद्वयम्) [1 × 2 = 2]

(i) कस्मात् क्षीणः हतः भवति ?
(ii) वृतं केन संरक्षेद् ?
(iii) वित्ततः क्षीण कीदृशः भवति ?
उत्तर:
(i) वृत्ततः क्षीणः हतः भवति ।
(ii) वृत्तं यत्नेन संरक्षेद् ।
(iii) वित्ततः क्षीण : अक्षीणो भवति ।

(इ) भाषिक कार्यम् – (केवलं प्रश्नद्वयम् )

(i) ‘वृत्तं यत्नेन संरक्षेद्’ अत्र किं क्रियापदं प्रयुक्तम् ?
(ii) ‘क्षीणो’ इत्यस्य पदस्य अत्र कम्: विलोमपदं प्रयुक्तं ?
(iii) ‘आचरणम्’ इत्यर्थे अत्र कः पर्यायः प्रयुक्तः ?
उत्तर:
(i) संरक्षेद्
(ii) अक्षीणो
(iii) वृत्तम्

15. अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- [5]

विना लिप्यक्षरज्ञानं तपोभिरेव केवलम् ।
यदि विद्या वशे स्युस्ते, सेतुरेष तथा मम ॥

पुरुषः – भोस्तपस्विन्! कथं माम् अवरोधं करोषि । प्रयत्नेन किं न सिद्धं भवति ? कावश्यकता शिलानाम् ? सिकताभिरेव सेतुं करिष्यामि स्वसंकल्पदृढतया ।
तपोदत्तः – आश्चर्यम्! किम् सिकताभिरेव सेतुं करिष्यसि ? सिकता जलप्रवाहे स्थास्यन्ति किम् ? भवता चिन्तितं न वा ?
पुरुषः – (सोत्प्रासम्) चिन्तितं चिन्तितम्। सम्यक् चिन्तितम्। नाहं सोपानसहायतया अधि रोढुं विश्वसिमि । समुत्प्लुत्यैव गन्तुं क्षमोऽस्मि ।
तपोदत्तः – (सव्यङ्ग्यम्)
साधु साधु! आञ्जनेयमप्यतिक्रामसि !
पुरुष: – (सविमर्शम्)
कोऽत्र सन्देहः ? किञ्च,

प्रश्नाः

(अ) एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) [1/2 × 2 = 1]

(i) ‘क: अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति ?
(ii) काभिः एव सेतुं करिष्यामि ?
(iii) पुरुष: कुत्र सिकताभिरेव सेतुं निर्मातुं प्रयतते ?
उत्तर:
(i) तपोदत्त:
(ii) सिकताभिः
(iii) नद्याम्।

(आ) पूर्णवाक्येन उत्तरत—(केवलं प्रश्नद्वयम्) [1 × 2 = 2]

(i) पुरुष : तपस्विनं किम् अकथयत् ?
(ii) जल प्रवाहे के न स्थास्यन्ति ?
(iii) सः केन मार्गेण अट्टयाधिरोढुं न विश्वासं करोति ?
उत्तर:
(i) पुरुष: तपस्विनं अकथयत् – भोस्तपस्विन् ! कथं माम् अवरोधं करोषि ?
सेतुनिर्माणाय शिलानां का आवश्यकता ? अहं स्वसंकल्पदृढतया सिकताभिः एव सेतु निर्माणं करिष्यामि ।
(ii) जलप्रवाहे सिकताः न स्थास्यन्ति ।
(iii) तपोदत्त: सोपान मार्गे अट्टयाधिरोढुं न विश्वासं करोति ।

(इ) भाषिक कार्यम् – (केवलं प्रश्नद्वयम् )

(i) ‘व्यङ्ग्येन सहितम्’ इत्यर्थे कः पर्यायः प्रयुक्तः ? [1 × 2 = 2](ii) ‘किम् सिकता जल प्रवाहे स्थास्यन्ति’ अत्र किं क्रियापदं प्रयुक्तम् ?
(iii) ‘ भवता चिन्तितं न वा’ अत्र किं कर्तृपदं प्रयुक्तम् ?
उत्तर:
(i) सव्यङ्ग्यम्
(ii) स्थास्यन्ति
(iii) भवता ।

16. वाक्येषु रेखाङ्कितपदानि आधृत्य उचितप्रश्ननिर्माणम् क्रियताम् – (केवलं प्रश्नचतुष्टयम्) [1 × 4 = 4]

(i) सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता।
उत्तर:
कस्मात् पूर्वमेव बालिका तत्रोपस्थिता ?

(ii) मोदकानि पूजा निमित्तानि रचितानि आसन् ।
उत्तर:
कानि पूजानिमित्तनि रचितानि आसन् ?

(iii) वृत्तं यत्नेन संरक्षेद् ।
उत्तर:
वृत्तं केन/कीदृशेन संरक्षेद् ?

(iv) मध्यमानस्य दहनः अणिमा ऊर्ध्व समुदीषति ।
उत्तर:
कस्य दहनः अणिमः ऊर्ध्व समुदीषति ?

(v) हताश्वा हतसारथिः रावणः भुवि: अपतत् ।
उत्तर:
हताश्वा हतसारथिः रावणः कुत्र अपतत् ?

17. अधोलिखितश्लोकस्य अन्वये रिक्तस्थान पूर्तिं क्रियताम्- [1 × 3 = 3]

निनादय नवीनामये वाणि! वीणाम्
मृदु गाय गीतिंललित-नीति-लीनाम् ।
मधुरमञ्जरी – पिञ्जरी-भूत-माला:
वसन्ते लसन्तीह सरसा रसाला:
कलापाः ललित-कोकिला-काकलीनाम्।
अन्वय-अये वाणि! नवीनां (i) ………… निनादय । (ii) ………. गीतिं मृदुं गाय । इह वसन्ते मधुरमञ्जरी पिञ्जरी भूतमालाः सरसा: (iii) ……… लसन्ति। ललित-कोकिला – काकलीनाम् कलापा: (विलसन्ति)।

मञ्जूषा- रसाला:, ललितनीतिलीनाम्, वीणाम्
उत्तर:
अन्वयः अये वाणि! नवीनां (i) वीणां निनादय । (ii) ललितनीतिलीनां गीतिं मृदुं गाय । इह वसन्ते मधुरमञ्जरी पिञ्जरी भूतमाला : सरसा : (iii) रसाला: लसन्ति । ललित-कोकिलाकाकलीनाम् कलापाः विलसन्ति।

अथवा

अधोलिखितस्य श्लोकस्य भावार्थे रिक्त स्थान पूर्तिं कृत्वा पुनः लिख्यताम्-

कार्यमद्यतनीयं यत् तदद्यैव विधीयताम् ।
विपरीते गतिर्यस्य स कष्टं लभते ध्रुवम् ॥

भावार्थ:

अस्य श्लोकस्य भावः अस्ति यत् कार्यं सदैव (i) ……… अद्यैव करणीयम्। (ii) ……… कार्यं करणे सति तस्य परिणामं (iii) ……. एव प्राप्नोति। तत् कार्यं नूनं एव कष्टं ददाति अतएव उचितं समये एव कार्यं सुखं प्रदानं करोति ।

मञ्जूषा – विपरीतम्, समये, असमये
उत्तर:
अस्य श्लोकस्य भावः अस्ति यत् कार्यं सदैव (i) समये अद्यैव करणीयम् (ii) असमये कार्यं करणे सति तस्य परिणामं (iii) विपरीतम् एव प्राप्नोति। तत् कार्यं नूनम् एव कष्टं ददाति अतएव उचितसमये एव कार्यं सुखं प्रदानं करोति ।

18. घटनाक्रमानुसारं लिखत- [1/2 × 8 = 4]

(i) अथ स पुष्पोद्यानं व्रजन्तं मधुकरं दृष्ट्वा तं क्रीडाहेतोराह्वयत् ।
(ii) स चिन्तयामास-विरमन्त्वेते वराकाः पुस्तकदासाः।
(iii) यतस्ते सर्वेऽपि पूर्वदिन पाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणा बभूवुः ।
(iv) सद्विस्त्रिरस्याह्वानमेव न मानयामास।
(v) अयि चटकपोत ! मानुषस्य मम मित्रं भविष्यसि ।
(vi) तदा खिन्नो बालकः एते पक्षिणो मानुषेषु नोपगच्छन्ति ।
(vii) ननु भूयो द्रक्ष्यामि क्रुद्धस्य उपाध्यायस्य मुखम्।
(viii) किन्तु तेन सह केलिभिः कालं क्षेप्तुं तदा कोऽपि न वयस्येषु उपलभ्यमान आसीत्।
उत्तर:
(i) किन्तु तेन सह केलिभिः कालं क्षेप्तुं तदा कोऽपि न वयस्येषु उपलभ्यमान आसीत्।
(ii) यतस्ते सर्वेऽपि पूर्वदिन पाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणा बभूवुः।
(iii) स चिन्तयामास-विरमन्त्वेते वराकाः पुस्तकदासाः।
(iv) ननु भूयो द्रक्ष्यामि क्रुद्धस्य उपाध्यायस्य मुखम्।
(v) अथ स पुष्पोद्यानं व्रजन्तं मधुकरं दृष्ट्वा तं क्रीडाहेतोराह्वयत् ।
(vi) सद्विस्त्रिरस्याह्वानमेव न मानयामास।
(vii) अयि चटकपोत ! मानुषस्य मम मित्रं भविष्यसि ।
(viii)तदा खिन्नो बालक : एते पक्षिणो मानुषेषु नोपगच्छन्ति।

19.
(क) अधोलिखितानां रेखाङ्कित पदानां प्रसङ्गानुसारं अर्थलेखनम् – (केवलं प्रश्नचतुष्टयम्)

(i) कश्चन बाल: भ्रान्त: पाठशालागमन वेलायां क्रीडितुं निर्जगाम।
(ii) सिकता जलप्रवाहे स्थास्यन्ति किम् ?
(iii) अहं सोपानमार्गैरट्टम् अधिरोढुं विश्वसिमि ।
(iv) भो तपस्विन्! कथं माम् उपरूणात्सि ?
(v) तत्र विविधाः विहगाः श्रोत्ररसायनं ददति ।

मञ्जूषा
उपरिआगन्तुम् भ्रमयुक्तः, अवरोधं करोषि, बालुका, कर्णामृतम्
उत्तर:
(i) भ्रमयुक्तः
(ii) बालुका
(iii) उपरिआगन्तुम्
(iv) अवरोधं करोषि
(v) कर्णामृतम्

(ख) अधोलिखितानां शब्दानां अर्थैः सह मेलनम् कुरुत – ( केवलं प्रश्नचतुष्टयम्) [1/2 × 4 = 2]

(i) प्रासादः – स्वादिष्टानि
(ii) स्वादूनि – भवनम्
(iii) केलिभिः – पातुम्-अयोग्यम्
(iv) अपेयम् – लोभवशीभूता
(v) लुब्धा – क्रीडाभिः
उत्तर:
(i) प्रासादः – भवनम्
(ii) स्वादूनि – स्वादिष्टानि
(iii) कोलिभिः – क्रीडाभिः
(iv) अपेयम्: – पातुम्ं-अयोग्यम्
(v) लुब्धा – लोभवशीभूता ।


Show More

Related Articles

यौगिक किसे कहते हैं? परिभाषा, प्रकार और विशेषताएं | Yogik Kise Kahate Hain Circuit Breaker Kya Hai Ohm ka Niyam Power Factor Kya hai Basic Electrical in Hindi Interview Questions In Hindi